________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१० चरक संहिता।
[तिनैपणीयः दशसमुदायस्थाविशेषादनमेयत्वं नावयविनो भवति । तस्माद वृक्षवुद्धिरनुमानं न भवति । इत्येवमेकदेशग्रहणमाश्रित्य प्रत्यक्षस्थानमानलमनपपन्नम्।
तथापि चेत् ? उच्यते-वृक्षस्यैकदेशग्रहणादनमीयते वृक्षस्य सवियवसङ्घातः । तेन पुनस्तत्सवियववान वृक्ष इति चानुमीयते इति प्रत्यक्षमनुमानमेवेति चेत् ? न । प्रत्यक्षेण यावर तावदप्युपलम्भात् । यावदेकदेशग्रहणं भवताश्रीयते तावदेकदेशस्यापि प्रत्यक्षेणेवोपलम्भः । तस्मात् प्रत्यक्षं नानुमानमिति । न चैप उपलम्भो निविएयो भवति । यावच्चार्थजातमुपलम्यते तावदेव तदुपलम्भस्य विषयः प्रत्यक्षव्यवस्थापकं भवति। किं पुनस्तदन्यदर्थजातमवयवी वा समुदायो वेति । न चैकदेशग्रहणमनुमानतयोपपादयितु शवयं हेखभावादिति । अन्यथापि च प्रत्यक्षस्य नानमानसप्रसङ्गः, तत्पूर्वकलात् । प्रत्यक्षपूव्वेकं ह्यनुमानं सम्बदायग्निधूमौ प्रत्यक्षतो दृष्टवतो धर्म तत् प्रत्यक्षदर्शनादनावनुमानं भवति। यत्र च सम्बन्धयोलिङ्गीलगिनोः प्रत्यक्षं यच्च लिङ्गमात्रगत्यक्षग्रहणं न लिङ्गिनः प्रत्यक्ष, तत्र तल्लिङ्गग्रहणमन्तरेण नानुमानस्य प्रवृत्तिरस्ति। न चैतदनुमानमिन्द्रियार्थसन्निकषजवाद धूमज्ञानस्य । न चानुमेयस्य इन्द्रियार्थसनिकदिनुमानं भवति । एकमेव प्रत्यक्षानमानयोलक्षणभेदो महानाश्रयितव्य इति । ___ साङ्केत्र कपिलेनाप्युक्तम् – “अचाक्षुपाणामनुमानेन बोधो धूमादिभिरिव बने रिति ।” अथ तहि किं सर्वत्र वैकदंशस्यैव प्रत्यक्षं न समुदायस्येति ? “न चैकदेशोपलब्धिरवयविसद्भावात् ।” एकदेशोपलब्धिमात्रं न प्रत्यक्षम् । तहि कि प्रत्यक्षा ? एकदेशोपलब्धिस्तत्सहितावविनश्चोपलब्धिरिति द्वयमेव प्रत्यक्षम् । कस्मात् ? अश्यविसद्भावात् । अस्ति ह्ययमेकदेशव्यतिरिक्तोऽत्रयवी। तस्यावयवसङ्घातस्योपलब्धिकारणानि गन्धरसरूपस्पर्शादीनि प्राप्तस्य खल्वेकदेशोपलब्धौ सत्यामनुपलब्धिरनपपन्ना भवति। अकृत्स्नग्रहणादनुपपन्न वैति चेत् ? न। प्रत्यक्षकारणगन्धादितः खल्बस्याक्यविन एकदेशाभावात । न चावयवाः कृतस्त्रा गृह्यन्ते। अवयवेनैवाक्यवान्तरव्यवधानात्। नावयवी च कात्स्नान गृह्यते। नायमवयवेषु गृह्यमाणेषु परिसमाप्त इति, सेयमेकदेशोपलब्धिन नित्तेति। कृत्स्नमिति हि निःशेषतायां सत्यां भवतीति शेषे सति वकृतमिति भवति। तच्चैतदवयवेषु बहुषु वत्तते। अव्यवधाने ग्रहणात् व्यवधाने चाग्रहणादिति । अथ खल्लङ्गं किं गृह्यमाणस्यावयविनस्वगृहीतं मन्यते येनैकदेशोपलब्धिः स्यादिति ? न ह्यस्य प्रत्यक्षकारणेभ्यो गन्धादिभ्यो
For Private and Personal Use Only