________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ]
सूत्रस्थानम् ।
५०७
1
विषयम् । तस्मादिन्द्रियार्थसन्निकर्षः प्रधानमिति । असति खल्वात्मनः प्रणिधाने मनसः सङ्कल्पे चासति सुप्तव्यासक्तमनसां नृणां यत् प्रबलार्थ तीव्रवज्रादिध्वन्यादिमनोहररूपादिसन्निकर्षादुत्पद्यते ज्ञानं प्रबोधरूपं तत्र प्रबोधत्वमात्मना सह तदैव तदर्थजनितमनः संयोगो जायमानः कारणमिति । अतो मनः क्रिया च कारणं वक्तव्यमिति युगपत्प्रबलेन्द्रियार्थसन्निकर्षो मनःक्रियात्ममनः संयोग भवति । यथैव शातुरिच्छाजन्ति एवार्थग्रहणायारम्भो मनसः प्ररको ह्यात्मगुणस्तथात्मनि गुणान्तरश्च सर्व्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन गुणेनात्मना प्रेरितं मन इन्द्रियेण सम्बध्यते । तेन गुणेन अय्र्यमाणे मनसि खल्वायनःसंयोगाभावाज्ज्ञानानुत्पत्तौ सत्यामस्यात्मनः सर्वाधिता निवर्त्तते। तस्मादात्मनि या नित्यैवानुद्भूता चेतना वर्त्तते सैवास्य द्रव्यगुणकम्मैभिरभिव्यज्यते । नित्यानुवन्धो हि मनस आत्मनि यदा सुप्तव्यासक्तमनसां प्रवलार्थेनेन्द्रियसन्निकर्षः स्यात् तदैवात्मनश्चैतन्यं व्यज्यमानं मनश्चेतयति । चेत्वापनः क्रियया चात्माप्युपचय्यते युगपदिति सक्रियतात्मन एव्यं भवति । अन्यथाकाशादि पूर्वपूर्व्वभूतानुप्रविष्टानां चतुर्व्विधानां सूक्ष्माणां भूतानां मनसच सक्रियलात् ततोऽन्यस्य क्रियाहेतोः असम्भवात् शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्ग इति ।
:
अथेन्द्रियार्थसन्निकर्षस्य ज्ञानकारणतं नोपपद्यते । यतः, अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः । इन्द्रियेणार्थस्यामाप्यग्रहणं काचाद्यन्तर्गतानां तृणादीनामप्रतिहतं दर्शनं भवति । ततो व्यवहितेनेन्द्रियेणार्थः सन्निकृष्यते । व्यवधानेनार्थस्य प्राप्तिर्व्याहन्यते । यदि नक्तञ्चरनयनरश्मिदर्शनात् तद्रश्म्यर्थसन्निकर्षोऽर्थग्रहणहेतुः स्यात् तदा न व्यवहितस्य काचाद्यन्ततस्य सन्निकर्षः स्यात् । ततोऽर्थग्रहणं न स्यात् । अस्ति च काचाद्यन्तरितानां व्यवहितानामुपलब्धिरियन्तु ज्ञापयति । अमाय्यकारीणीन्द्रियाणि anarभौतिकानि । प्राप्यकारित्वं हि भौतिक इति चेत् ? न । कुड्यान्तरितानुपलब्धेरप्रतिषेधः । अवाप्यकारिले यदीन्द्रियाणां कुड्यान्तरितानामनुप-लब्धिन स्यात् तदा प्राप्यकारित्वेऽपि काचायन्तरितानामुपलब्धिनं स्यात् प्राप्तप्रभावात् । काचाद्यन्तरितानान्तु प्रत्यक्ष काचादिभिरप्रतिघातात् तत्सन्निकर्षोत्पत्तिः । न हि काचादयो नयनरश्मिं विष्टम्नन्ति । सोऽप्रतिहन्यमानः सन्निकृष्यते । अथ भौतिकस्य नाप्रतिघात इति चेत् ? न । आदित्यरश्मेः स्फटिकान्तरेऽपि दाह्य विधातात् । आदित्यरश्मेभौतिकस्याविघातात्
For Private and Personal Use Only