________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ तिस्तेषणीयः
५०६
चरक-संहिता। सुप्तः प्रबोधकालं प्रणिधाय तत्प्रणिधानवशास् प्रबुध्यते। यदा तु तीनो ध्वनिस्पशौ प्रणिधानमन्तरेण प्रबोधकारणं भवतस्तदा प्रलुप्तस्येन्द्रियार्थसन्निकष निमित्तं प्रबोधज्ञानमुत्पद्यते। तत्र न ज्ञातुर्मनसश्च सन्निकर्षस्य प्राधान्यं भवति । किन्तु तीन्द्रियार्थसन्निकर्पस्येति । न ह्यात्मा जिज्ञासमानः प्रयत्नेन तदा मनः प्ररयतीति । एवमेकदा खल्वयं विषयान्तरसंसक्तमनाः सङ्कल्पवशाद्विपयान्तरं जिज्ञासमानः प्रयत्नात् प्रेरितेन मनसेन्द्रियं संयोज्य तद्विषयान्तरं जानीते। यदा तु खल्वस्य निःसङ्कल्पस्य निर्जिशासस्य च व्यासक्तमनसो वाह्यविषयोपनिपतना ज्ञानमुत्पद्यते, तदेन्द्रियार्थसन्निकपस्य प्राधान्यम्। न ह्यत्रासो जिज्ञासमानः प्रयत्नेन मनः प्ररयतीति प्राधान्यात् इन्द्रियार्थसन्निकर्षस्य ग्रहणमिह कृतम् । कार्यगुणवान्नात्ममनसोः सन्निकर्षस्येति । एवमिन्द्रियार्थग्रहणस्य प्रयोजनश्च । तैश्वापदेशो ज्ञानविशेषाणाम् । तैरिन्द्रियैरर्थश्च व्यपदिश्यन्ते ज्ञान विशेषाः। घ्राणेन सुगन्धिं जिघ्रतीति सुगन्धिविषयं घ्राण ज्ञानम् । तथा चक्षुषा घटं पश्यतीति घटविषयं चाक्षुषं ज्ञानमित्येवं पञ्चेन्द्रियज्ञानानि व्यपदिश्यन्ते इति प्राधान्यमिन्द्रियार्थसन्निकर्षस्येति।
ननु सुप्तव्यासक्तमनसाञ्चेन्द्रियार्थ योः सन्निकपस्य ज्ञाननिमित्तवादिह ग्रहणमित्यत्र स हेतुः, व्याहतत्वादहेतुः । यदि तावत खल्यात्ममनसोः सन्निकर्षस्य शानकारणवं नेप्यते तदा “युगपज शानानुत्पत्तिर्मनसो लिङ्गम्" इत्यस्य व्याधातः। तदा मनसः सन्निरूपमिन्द्रियार्थ सन्निकोऽपेक्षते । मनःसंयोगानपेक्षया च युगपज शानोत्पत्तिप्रसङ्गः। नवाव्याघातोऽभून सर्चविज्ञानानामात्यमनःसन्निकर्षस्य कारणलमिति वचनादेवाव्याघातो न स्यात् । शानकारणखेनात्ममनसोः सन्निकर्षस्य ग्रहणं कार्यमिति चेत् ? न, अर्थविशेषप्राबल्यात् । नास्ति हि व्याघात आत्ममनसोः सन्निकर्षस्य ज्ञानकारणखव्यभिचारात्। इन्द्रियार्थसन्निकर्षस्य हि प्राधान्यमर्थ विशेषप्राबल्यात्। सुप्तव्यासक्तमनसां हि युगपज ज्ञानोत्पत्तिर्भवति। अर्थविशेषः कश्चिदेवेन्द्रियार्थः। तस्य प्राबल्यं तीव्रत-पटुते। तच्चार्थ विशेषमावल्यमिन्द्रियार्थसन्निकर्षविषयं, न तु गुप्तव्यासक्तमनसामात्ममनःसन्निकर्ष
प्रमाणज्ञानसाधारणत्वेनैव लक्षणार्थमुपयुक्तः ; इह च प्रत्यक्षफलरूपापि बुद्धिः प्रत्यक्षशब्देनाभिधीयते तथैव लोकव्यवहारात्, परमार्थतस्तु यतो भवतीन्द्रियारीशी बुद्धिस्तत् प्रत्यक्षम् ॥ ७ ॥
For Private and Personal Use Only