________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः सूत्रस्थानम् ।
५०५ प्रत्यक्ष प्रसज्यत इत्यत उक्त व्यवसायात्मकमिति। व्यवसायो हि गुणतो दोपतः कल्पनया निश्चयात्मिकया बुद्धया भवति । चक्षुषा ह्ययमर्थ पश्यन् नावधारयति मनसा हीन्द्रियेणोपलब्धमर्थमुपलभते । एवमिन्द्रियेणानवधारयन् मनसा नावधारयति । यच्चैतदिन्द्रियानवधारणपूर्वकं मनसानवधारणं तद्विशेषापेक्षं विमर्शमात्रं संशयो न प्रत्यक्षमिति। सव्र्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेणार्थग्रहणादृद्ध मूहविचाराभ्यां गुणतो दोपतो वा कल्पनया निश्चयज्ञानाद व्यवसायः पश्चान्मनसा तदनुव्यवसायः । उपहतेन्द्रियाणामनुव्यवसायाभावात् । एवं सति आत्मादिपु सुखादिषु च प्रत्यक्षलक्षणं वक्तव्यम् । तद्धानिन्द्रियार्थसन्निकर्षजमिति चेत् ? तदोच्यते--सत एव मनस इन्द्रियवेऽपीन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात् कृतो न खिन्द्रियसप्रतिषेधार्थन् । भोतिकानीन्द्रियाणि गन्धादिनियतविषयाणि सगुणानाञ्च घ्राणादीनामिन्द्रियसं, गुणाश्च तेषां गन्यादयः। मनस्तु अभौतिक सर्व विषयं न चास्य गन्धादिगुणवत्त्वेनेन्द्रियभावः। सर्वेन्द्रियचेष्टाप्रत्ययभूतञ्च मन इति धम्मभेदः। सति चेन्द्रियार्थसन्निकर्षे मनसः सन्निधिमसन्निधिञ्च युगपज्ञानानुपपत्तिकारणं वक्ष्यते इति ।
तहि किं मनसश्चेन्द्रियभावान्न लक्षणान्तरं वाच्यमिति ? तत्रान्तरसमाचाराच्चैतत प्रत्येतव्यमिति। परमतयप्रतिषिद्धमनमतमिति। तत्रयुक्ति. रिति चेन् ? तदोच्यते--यदिहेन्द्रियपदेन मनो गृह्यते तहि चास्य प्रत्यक्षलक्षणस्य परीक्षायां वक्ष्यमाणानाम् । “प्रत्यक्ष लक्षणानुपपत्तिरसमग्रवचनात् ।” "नात्ममनसो सन्निकोभावे प्रत्यक्षोत्पत्तिरिति ।” तत्र सिद्धान्तसूत्रम् । “ज्ञानालिङ्गखादात्मनो नानवरोषः।" “तदयोगपधलिङ्गलाच न मनसोऽनवरोधः” इति सूत्रवैययं स्यात् । तस्मादिह प्रमाणाधिकारे प्रमाणीभूतस्य प्रत्यक्षशानस्येदं लक्षणं, न तु प्रत्यक्षज्ञानमात्रस्य । तस्मात् तत्रान्तरसमाचारादात्मादिसुखादिप्रत्यक्षार्थ लक्षणं बोध्यम् । इह प्रमाणाधिकारे मानसप्रत्यक्षलक्षणं न वाच्यमिति । ज्ञानलिङ्ग आत्मा युगपज्ज्ञानानुपपत्ती मनसो लिङ्गमित्यात्ममनःसन्निकापेक्ष इन्द्रियार्थसन्निकर्षः प्रत्याज्ञानकारणम् । प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनःसन्निकर्ष इति समानः। प्रत्यक्षस्यैवेन्द्रियार्थसन्निकः इत्यसमानः। इत्यसमानखादिन्द्रियार्थसन्निकर्षग्रहणमिह कृतम् । सुप्तव्यासक्तमनसाञ्चेन्द्रियार्थयोः सन्निकपंनिमित्तखात्। एकदा खल्वयं
सुखादिविषयमपि प्रत्यक्षं गृहीतं भवति, तत्र हि हेतुचतुष्टयसन्निकर्पो नास्ति, आत्मसन्निकर्षस्तु
For Private and Personal Use Only