________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५०८
[ तित्रैपणीयः
चरक संहिता । स्फटिकाद्यन्तरेऽप्यविघाताय दाहेोऽप्यविद्यातान्न भौतिकस्याप्रतिघातप्रतिषेधः । कुम्भस्थमुदकमादित्यरश्मिस्तापयति, तथान्यच गृहान्तरादिकम् । द्रव्यान्तरस्य च वादेरुष्णस्पर्शप्राप्ती शीतस्पर्शाभिभव इति । एवं स्फटिकान्तरेऽपि तृणादौ प्रकाशनी प्रदीपादिरश्मीनामप्रतिघातात् प्राप्तस्य ग्रहणमिति । तथा भर्ज्जनकपालस्थ द्रव्यमाग्नेयेन तेजसा दद्यते । तत्र भौतिकस्याप्रतिघातात् प्राप्तिः, प्राप्तौ हि दाहः स्यात् । न प्राप्यकारि स्यात् तेज इति । अविघातादित्ययमविघातः खल्वच्यूयमानावयवेन व्यवधायकेन द्रव्येणा सर्व्वतो द्रव्यस्य विष्टम्भः क्रिया हेतोरमतिवन्धः प्राप्तेरगतिषेध इति । दृष्टं हि कलसनिषिक्तानामपां वहिःशीतस्पर्शस्य ग्रहणम् । न चेन्द्रियेणा सन्निकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः । टो च प्रस्यन्दपरिस्रावी । तत्र काचादिभिर्नयनरश्मेः प्रतिघाताद्विभिद्यार्थेन सह सन्निकर्षादुत्पन्नं ग्रहणमिति । अथवं नेतरधम्र्मप्रसङ्गात् । काचादिभिरिव कुड्यादिभिरप्रतिघातः कुड्यादिभिरिव वा काचादिभिः प्रतिघात इत्येवमितरधर्मप्रसङ्गान्न प्राप्यार्थग्रहणमिति चेत् ? तत्र नियमोsयम् । आदर्शोदकयोः प्रसादस्वाभाव्याद् रूपोपलब्धिवत् तदुपलब्धिः । यथा खल्वादशदिकयोः प्रसादस्वभावयोर्न मेल्यस्वधर्म्मयोः पश्चात् स्थितमलिनद्रव्येण प्रतिहतपश्चात्प्रसादेन परावृतस्वमुखप्रतिविम्वस्य सन्निकप सति प्रतिरूपोपलब्धिरादर्शादेविशदरूपानुग्रहात् तन्निमित्तं प्रतिविम्बग्रहणम् । तद्विशदरूपोपघाते मलाते खादर्शादौ तत्प्रतिविम्वाभावात् । तथा कुड्यादिषु च प्रतिविम्बग्रहणं न भवति । तथैव काचादिभिरविघातश्चक्षरश्मेः प्रसादस्वाभाव्यात् । कुड्यादिभिस्तु प्रतिघातो मलिन स्वाभाव्यादिति ।
अपि च । दृष्टान्तानुमितानां नियोगप्रतिषेधानुपपत्तिः । प्रमाणस्य याथानार्थविषयत्वान्न खलु परीक्षमाणेन पुंसा दृष्टा अनुमिता वा निश्चयेन येऽर्थास्ते नियोक्त' प्रतिषेद्ध' वा न शक्या भवन्ति । यद् यादृशं दृष्टं तत् तादृशं न भवति, भवति चान्यादृशमित्येवं रूपान्तरनियोगो यथार्थ रूपप्रतिषेधो वा कर्त्तं शक्यते । दृष्टानमिताः खल्विमे द्रव्यधम्मः प्रतिघाताप्रतिघातयोरनपलब्ध्युपलब्धी व्यवस्थापिके भवतः । व्यवहितानुपलब्धाऽनुमीयते कुड्यादिभिः प्रतिघातः । व्यवहितोपलब्ध्या वनमीयते काचादिभिरप्रतिघात इति । एवमेव सांख्यशास्त्रे कपिलेनापि प्राप्यार्थ ग्रहणमिन्द्रियाणामुक्तम् । तद्यथा । "नामातप्रकाशकत्वमिन्द्रियाणामप्राप्तेः सर्व्वमाप्ते ।" सर्व्वमाप्ते |" काचाद्यन्तर्वर्त्तिनां चक्षुषा प्रत्यक्षेण ग्रहणादिन्द्रियाणामप्राप्तार्थ प्रकाशकलं न भवति, अप्राप्तेः ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only