________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०२ चरक संहिता।
{ तिनैपणीयः नित्यातुबन्धं सत्त्वभूतगुणन्द्रिययोगाच्चैतन्ये कारणमिति। इन्द्रियाणि पञ्च चक्षुरादीनि प्रागुक्तानीन्द्रियोपक्रमणीये, बुद्धिहेतुखात्। न तु कर्मेन्द्रियाणि पञ्च पायवादीनि, पायवादिसभिक ज्ञानानुत्पत्तेश्च। तेषां स्वस्वार्थग्राहिलं मनःपुरःसरखेन प्रागुक्तम् । मन इति सत्त्वसंशकं, तदपि प्रागिन्द्रियोपक्रमणीचे व्याख्यातम्। अर्थाश्च तत्रैवोक्ताः पञ्च शब्दादयः । न तु मनोऽर्धश्चिन्त्यादिः प्रमाणाधिकारान्मानसप्रत्यक्षरयाप्रामाण्यात् । मानसप्रत्यक्षा हि वक्ष्यन्ते-चिन्त्यविचार्याइयो मनोऽर्था इति। आत्मप्रत्यक्षास्तु ज्ञानेच्छाव पखुखदुःखमयना इति। तेषां येन कश्चित् किमपि यादृशं चिन्तयति विचारयत्यपरोऽन्यथा चिन्तयति विचारयति तथा येन कश्चित् सुखमनुभवति शत्रुमरणेन तेन तच्छत्रुवान्धवा दुःखमनमान्तीति साधारणविषयवाभावात् न तन्मानसप्रत्यक्षमात्मात्यक्षश्च प्रमाणम्। योगिनां योगसमाधी यत प्रत्यक्षं तदपि तेषामेव न सव्वेषां जनानां प्रत्यक्षं सम्भवति। तैरुपदेशश्चाप्तोपदेश इति। तस्मान्नानसभत्यक्षमात्मप्रत्यक्ष, प्रत्यक्षज्ञानमेव न प्रमाणम् । अतोऽत्रार्थाः पञ्च शब्दादयः। तेषां ग्रहणार्थमिन्द्रियाणि मनः पुरःसरति संयोगाय यदा तदा तैमनःसंयुक्तरात्मनाभीप्सितः शब्दादिरर्थः सन्निकृप्यते, तदा खल्वात्मना स्वाभीष्टार्थमभीप्सता मनो नियुज्यते। तेन नियुक्तश्च मनस्तदर्थग्राहकमिन्द्रियं स्पर्शनेन्द्रियवत्सेना गच्छति। मनोयुक्तञ्च तदिन्द्रिय स्वार्थ सन्निकृष्टमेव गृहाति। सन्निकपश्चावरणायभावे सान्निध्यं यावन्मात्रव्यवधानेनाथों ग्रहणमहति तावन्मात्रम्। पूर्वमुक्तमिन्द्रियार्थसत्त्वात्मसन्निकर्पजाश्चानुवादिकाः क्षणिका निश्चयात्मिकाश्चेति। तेन कतिधापुरुषीये वक्ष्यते–“या यदिन्द्रियमाश्रित्य जन्तोवुद्धिः प्रवत्तेते। याति सा तेन निर्देशं मनसा च मनोमवा ॥” इति । पड़िया बुद्धयः। तागु मध्ये या बुद्धिरात्मना नियुज्यमानमनःसंयुक्तश्रोत्राद्यन्यतपेन्द्रियाणां स्वार्थेन सह सन्निकर्षात् तदाखे तात्कालिकी व्यता खल्वव्यभिचारिण्यव्यपदेश्या व्यवसायात्मिका प्रवर्तते सा प्रत्यक्षं नाम परीक्षा प्रमाणं निरुच्यते। स्मृत्यनमानादीनां तदालाभावान्न प्रत्यक्षतम् । पूर्वान भूतार्थस्य हि स्मरणं स्मृतिः। प्रत्यक्षपूव्वं हि ज्ञानपनमानमिति। अनेन प्रत्यक्षशानेन जन्यते या ज्ञानोपा. दानोपेक्षान्यतमा बुद्धिः सा प्रमा। वक्ष्यते च कतिशपुरुपीये-“इन्द्रियाभि
करोति ; तदात्वे तत्क्षणम्, अनेन च प्रत्यक्षज्ञानानन्तरोत्पन्नानुमानज्ञानं स्मरणञ्च परम्परया
For Private and Personal Use Only