SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यायः सूत्रस्थानम् । ५०३ ग्रहः कर्म मनसस्त्यस्य निग्रहः। अहो विचारश्च ततः परं बुद्धिः प्रवत्तते ॥ इन्द्रियेणेन्द्रियार्थी हि समनस्केन गृह्यते। कल्पयते मनसा तूद्ध गुणतो दोपतो यथा ॥ जायते विषये तत्र या बुद्धिनिश्चयात्मिका। व्यवस्यते तथा वक्त कर्तुं वा बुद्धिपूर्वकम् ॥” इति । इन्द्रियेणाभीप्सितमर्थ जिघृलु मनस्तदिन्द्रियमभिमुखीभूय गृहातीतीन्द्रियाभित्रहो मनसः कर्मा। तदर्थस्य तदिन्द्रियेण ग्रहणानन्तरमस्य तदिन्द्रियस्य तदान्नित्रहो निवृतिस्तु मनसः कर्म। ततोऽनन्तरं तस्मिन् गृहीतेऽर्थे अहस्तके इदमेव वंगुण इत्येवमादिविचारश्च मनसः कर्म । ततः परं बुद्धिः प्रात्तते। तद यथा-समनस्केनेन्द्रियेण तदिन्द्रियार्थी मृह्यते । ततः ऊई स गृहीतोऽर्थो गुणतो यथा स्यात् दोगतश्च यथा स्यात् तथा मनसा कल्प्यते। तत्र विषयेऽर्थे तथा गुणतो दोपतः कल्पनया खलह विचाराभ्यां या निश्चयात्मिका बुद्धिर्जायते तया निश्चयात्मिकथा बुना बुद्धिपूर्वकमूह विचारपूचकं वक्तुं कर्त वा व्यबस्यते, इति सा निश्चयात्मिका बुद्धिव्यवसायसाधिका व्यवसायात्मिकाऽभिधीयते । तत्र या व्यवसायात्मिका बुद्धिरात्मनाभीप्सिताथग्रहणाय नियुक्तमनसा युक्तेनेन्द्रियेण सहार्थस्य सन्निकर्यात् प्रवत्तेते सा प्रत्यक्षं नाम, प्रमाणं पञ्चविधं-चाक्षुपं श्रावणं खाचं रासनं घ्राणनभिति। तैहानबुद्धिदोषतो विचारेण। गुणतो विचारेणोपादानबुद्धिः। उपेक्षाबुद्धिस्तु गुणदोषो. भयाभावतः कल्पनया भवति, सा प्रमा। इन्द्रियोपक्रमणीये सन्निकर्षों व्याख्यातः। इत्थमेवाक्षपादगौतमेनाप्युक्तम् । तद्यथा-"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणम्' इत्युद्दिष्टम् । अथ तल्लक्षणं क्रमेणोक्तं सपरीक्षम् । तद्यथा-"इन्द्रियार्थसन्निकपोत्पन्न शानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।” घ्राणरसनचक्षुस्त्वक्लोत्राणीन्द्रियाणि भूतेभ्यः। पृथिव्यापस्तेजोवायुराकाशमिति भूतानि । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः। व्याख्यातञ्च वात्स्यायनेन-इन्द्रियस्यार्थेन सन्निकर्षात उत्पद्यते यज्ज्ञानं तत् प्रत्यक्षम् । तहौंदानीपिदं न भवति । आत्मा मनसा सह स्वयमेव संयुज्यते, मनश्च स्वयमेवेन्द्रियेण सह संयुज्यते, तदिन्द्रियं चार्थेन सह स्वयमेव युज्यते इति। नेदं कारणावधारणमिन्द्रियार्थसन्निकर्षादिति। एतावत् प्रत्यक्षकारणमिति । किन्तु विशिष्ट कारणवचनप्रिति यत् प्रत्यक्षज्ञानस्य आत्मेन्द्रियमनोऽर्थसन्निकर्पज व्यवच्छिनत्ति ; आत्मादिचतुध्यसन्निकर्षाभिधानञ्च प्रत्यक्षकारणाभि For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy