________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम् ।
५०१ आत्मेन्द्रियमनोऽर्थानां सन्निकर्शत् प्रवर्तते । व्यक्ता तदात्ये या बुद्धिः प्रत्यक्ष ला निरुच्यते ॥७॥ तत्राह वादी-न खलु प्रतिषेधहेतूद्धारमात्रादेव शब्दस्य प्रमाणत्व सिथ्यतीति।
तत्राह सिद्धान्तप्-“मत्रायुदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यात् ।” यदायुनोपदिश्यते-इदं कृखेष्टमाप्नोति वर्जयिखा चेदमनिष्टं नामोति-तथानुष्ठाने तथैव स्यात् सत्याथखात्। अतोऽन्यथा विपर्यायः स्यात् । मन्त्रपदानाञ्च प्रयोगे सर्पराक्षससत्रादौ तदर्थस्य प्रत्यक्षदशनाच्च प्रामाण्यमाप्तवचनप्रामाण्यकृतं । तद्वन्निखिलवेदाद्याप्तवचनस्य प्रामाण्यमाप्तानां प्रामाण्यान। आप्तप्रामाण्यं समाधिसिद्धिजनितसार्थबोद्धत्वयथार्थोपदेष्टत्वं तेषां स्वयमेव बुध्यमानानामुपदेशादन्यन्नावरोधकारणमस्ति । तैरुपदिश्यमानं श्रुत्वा प्रतिपन्ना हेयं हास्यन्त्यधिगम्यमेवाधिगमिष्यन्त्युपेक्ष्य मुपेक्षिष्यन्ते चेति त्रिविवेनाप्तोपदेशेन त्रिविधेनैवाप्तप्रामाण्येन परिगृहीतोऽर्थोऽनुष्ठीयमानोऽर्थसाधको भवतीत्याप्तोपदेशप्रामाप्यादेवाप्ताश्च प्रमाणमेव । नाधिकं तदन्तर्दू तत्वात् । दृष्टार्थनाप्तोपदेशेन मन्त्रेणायुइँदैन चायन्ति तेन वेदभागेनादृष्टार्थोऽपरो वेदभागोऽनुमातव्यः प्रमाणमिति । दृष्टार्थादृष्टार्थयोरेकस्य वेदस्यैव द्वयोर्भागयोरुपदेप्टः समानत्वादिति। एवमाप्तोपदेशेऽन्तर्भूतस्य लोकेऽप्युपदेशस्य प्रामाण्यात् तदाश्रयो व्यवहारः । एष खल्वमुष्य पुत्रः पौत्रः प्रपौत्रः एतद्गोत्र एतत्प्रवर इत्येवयादि। प्रत्यक्षमपि च दृश्यमानमनुपदिष्टं न निश्चेतु शक्नोति । वदति च किमिदं दृश्यत इति तस्मादुपदेशतो ज्ञानमन्तरेण प्रत्यक्षप्रयाणपपि न सिध्यति । तस्माद्वेदानां वेदमितिहासपुराणमपि समानोपदेष्ट्रत्वान् प्रमाणं मधुब्राह्मणेऽप्युक्तम्-तस्याथर्वाङ्गिरसानि मधुकृत इतिहासपुराणं पुष्पमित्यादि ॥६॥
गङ्गाधरः-इत्याप्तोपदेशाज्ज्ञातमेवार्थम् प्रत्यक्षेणोपलभ्यत इत्यत आप्तोपदेशानन्तरमुद्दिष्टं प्रत्यक्षं लक्ष्यते-आत्मेत्यादि। आत्मा चेतनाधातुरव्यक्त नाम क्षेत्रवाधिष्ठितं कालानुपविष्टं प्रधानं सत्त्वरजस्तमोलक्षण मनसा
प्रत्यक्षलक्षणमाह-आत्मोन्द्रयेत्यादि। सन्निकर्षादिति सम्बन्धात्, स च सम्बन्धःसंयोगः, समवायः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, तद्विशेषणविशेष्यभावलक्षणो बोद्धव्यः। व्यक्ता इत्यनेन व्यभिचारिणीमयथार्थबुद्धिं संशयञ्च निरा
For Private and Personal Use Only