________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०० चरक-संहिता।
निर्देषणीयः एतिहसमाचरितो विधिः पुराकल्पः। यथा--तस्माद्वा एतेन ब्राह्मणा हविः पवमानं सामस्तोममस्तौषन् । यो भे यज्ञ प्रतनवामहे इत्येवमादि । कथं परकृतिपुराकल्पावर्थवादाविति नाशङ्काम्। स्तुतिनिन्दावाक्येनाभिसम्बन्धाद् विध्याश्रयस्य कस्यचिदर्थस्य द्योतनादर्थवादाविति। “विधि. विहितस्यानुवचनमनुवादः।” क्थ्यिनुवचनञ्च विहितानुवचनञ्च अनुवादः। विध्यनुवचनं शब्दानुवादः। विहितानुवचनम(नुवादः। यथा पुनरुक्तं द्विविधमेवमनुवादोऽपि द्विविक्षः। अधिकारार्थ हि विहितमन्द्यते। विहितमधिकृत्य स्तुतिवोच्यते निन्दा वा विश्शेिपो वाभिधीयते । विहितानन्तरार्थोऽपि चानुवादो भवति । एवमन्यदप्युत्प्रेक्षणीयम् । लोकेऽपि च विधिरथेवादोऽनुवाद इति च त्रिविधं वाक्यम्। ओदनं पचेदिति विधिवाक्यम् । आयुर्वचो बलं सुखं प्रतिभानश्चान्ने प्रतिष्ठितमित्यर्थवादवाक्यम्। पचतु पचतु भवानित्यभ्यासः, क्षिप्र पच्यतामिति वा। अङ्ग पच्यतापित्यध्येपणार्थम् । पच्यतामेवेति वाऽवधारणार्थम् । यथा लौकिके वाक्ये विभागेनाथग्रहणात् प्रमाणलं, तथा वेदवाक्येऽपि विभागेनाथग्रहणात् प्रमाणलं भवितुमहेतीति । अथ खल्वेवमपि वेदस्य प्रमाणवं न स्यात् । यतः-"नानुवादपुनरुक्तयोविशेषः शब्दाभ्यासोपपत्तेः ।” पुनरुक्तं दोपखादसाध। साधुरन. वादो निर्दोषखादित्येष विशेषो नोपपद्यते शब्दाभ्यासोपपत्तेः। उभयत्र हि प्रतीतार्थः शब्दोऽभ्यस्यते। चरितार्थस्य शब्दस्याभ्यासात् उभयमसाधु-इति। “शीघ्रतरगमनोपदेशवदभ्यासान्नाविशेषः।” अनुवादपुनरुक्तयोरविशेषो न भवति । विशेष एवास्ति, अभ्यासात्। अर्थवदभ्यासस्यानुवादलं समानेऽभ्यासे पुनरुक्तत्वमनर्थकं पुनरुक्तमर्थवाननुवाद इत्येवं विशेषः। शीघ्रतरगमनोपदेशवत् शीघ्र शीघ्र गम्यतां शीघ्रतरं गम्यतामिति क्रियातिशयोऽभ्यासेनैवोच्यते। एवमन्योऽप्यभ्यास ऊह्यः। पचति पचतीति क्रियानुपरमः। ग्रामो ग्रामो रमणीय इति वीप्सा। परि परि त्रिगर्तेभ्यो दृष्टो देव इति परिवर्जनम् । अध्यधिकुडंग निषप्णमिति सामीप्यम् । तिक्तं तिक्तमिति प्रकारः । एवमनुवादस्य स्तुतिनिन्दाशेषविधिषु अधिकाराथता विहितार्थता चेति । वेदस्यानृतव्याघातपुनरुक्तदोपाभावान्नाप्रामाण्यमिति ।
आप्तोपदेशशब्दरूपप्रमाणलक्षणमुक्त भवति ; बुद्धिप्रमाणपक्षे तु आप्तोपदेशजनिता बुद्धिः प्रमाणमिति बोद्धव्यम् ॥ ६॥
For Private and Personal Use Only