SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श अध्यापः ] सूत्रस्थानम् । ४६६ वदति, तदभ्यासमन्तरेण न भवति । त्रिर्वचनेन ह्यस्मिन् मन्त्रे प्रथमोत्तमयोरिति योऽस्मान द्वेष्टीत प्रथमपुरुपयोगे तिङ्प्रयोगघटितमन्त्रः । तस्यान्वाद उत्तममिति । यश्च वयं द्विष्म इत्युत्तमपुरुपयोगे तिङप्रयोगघटितमन्त्रस्त्रिरन्वाह त्रिः पठेदित्यभ्यासे पुनरुक्तिदोषो न भवति अनुवादस्यार्थवत्त्वात् । एवम् | " वाक्यविभागस्य चार्यग्रहणात् " न पुनरुक्तदोषः । यथा लोके प्रमाण शब्दस्तथा ब्राह्मणात्मकचाक्यानां विभाग त्रिविधः । तस्यार्थग्रहणान्न पुनरुक्तदोषः । “विध्यर्थवादानुवादवचनविनियोगात्" वाक्यविभागस्त्रिविधः । ब्राह्मणात्मक वाक्यानि विविधानि विनियुक्तानि - विधिवचनानि अर्थवादवचनानि अनवादवचनानीति । "विधिर्विधायकः " । यद्वाक्यं विधायकं कर्म्मणवोदकं स विधिः । विधिस्तु नियोगोऽनशा वा । विधिं ब्रुवन्ति यानि वाक्यानि तानि विधिवचनानि । तैर्विनियोगः क्रियते । यथाग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादि । वाक्येषु नियुज्यः स्वर्गकामः पुरुषस्तस्य प्रवृत्तिजनकव्यापारः प्रवर्त्तना चोदनेत्यनर्थान्तरम् । स एवं विधानकर्त्ता । विधायको विधिस्तस्मिन्नर्थे लिङादितिङनं विधानात् तत्तत्तिङोऽर्थः स्वर्गका पुरुषस्य प्रवृत्तिजनकव्यापारः । स्वजन्यत्वेन पुरुषों सोऽन्वेतव्यः प्रवृत्तेर्धात्वर्थक्रियायामन्वेतव्यः । तथा च प्रवृत्तिजनकव्यापारजन्यनियोगजन्या या स्वर्गकामपुरुषाश्रया प्रवृत्तिस्तत्साध्योऽग्निहोत्रकम्मैको होमः । अत्र नियोक्ता वेदः । यथा लोके खल्विहाय बुञ्जीत भवानित्यादौ नियोक्ता वक्ता । स च विध्यर्थतिङा योत्य इति । अथार्थवादवचनवाक्ये चतुर्द्धा । "स्तुतिनिन्दा परकृतिः पुराकल्प इत्यर्थवादः ।” विधेः फलवादलक्षणा या प्रशंसा नामाशीः सा स्तुतिः, सम्प्रत्ययार्थं । स्तूयमानमर्थं श्रदधीतेति प्रवर्त्तिका च । फलश्रवणाद्धि प्रवर्त्तते । यथा - सव्वैजितो वै देवाः सर्व्वमजयन सर्व्वस्याप्त सव्र्व्वस्य जित्यै सव्र्वमेवैतेनाति स जयतीत्येवमादि । अनिष्टफलवादो निन्दा, वज्र्ज्जनार्थ; निन्दितं न समाचरेदिति । यथा-स वा एप प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो य एतेनानिष्ट्वाऽन्येन यजेत, स गर्ने पतत्ययमेवैतज्जीय्र्यते वा इत्येवमादि । अन्यकत्कस्य व्याहृतस्य विधेर्व्वादः परकृतिः । यथा - हुखा वपामेवाग्रेऽभिधारयन्ति, अथ पृषदाज्यम् । तदुह चरकाध्वर्यवः पृषदाज्यमेवाग्रे ऽभिधारयन्ति । अग्नेः पृषदाज्यं स्तोममित्येवमभिदधतीत्येवमादि । प्राणाः पुरुषाणामाप्तत्वं प्रतिविपयसम्यग्ज्ञानसम्भवेन तद्विपयरागढ़ पासम्भवेन च बोद्धव्यम् एतेन, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy