________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६८ चरक-संहिता।
[तिरोपणोयः 'तदप्रामाण्यमनृतव्याघातपुनरुक्तिदोपेभ्यः' पुत्रकामेष्टिहवनाभ्यासेषु। तस्य वेदादने प्रमाणखा। कस्मात? अतृतदोपात । पुत्रकामेष्टी, पुत्रकामः पुत्रेष्ट्या यजेतेति। नेष्टौ संस्थितायां पुत्रजन्म दृश्यते । दृष्टार्थवाक्यस्यानृतखाददृष्टार्थमपि वाक्यमनृतमग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादि । विहितस्य हवने व्याघाताच तस्य वेदादेरमामाण्यम्। व्याधातवायम्। उदिते होतव्यमनुदिते होतव्यं समयाध्युपिते होतव्यम् -इति विधाय विहितं व्याहन्ति। श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोति। शवलोऽस्याहुतिमभ्यवहरति योऽनुदिले जुहोति । श्यावशवली वास्याहुतिमभ्यवहरतो यः समयाध्युपिते जुहोति। अध्युपिते खलूदितानुदिताधिककाले इति । व्याघाताच दृष्टार्थस्याप्यमामाण्यम् । चिकित्सिते हि प्रयोगस्यातियोगायोगमिथ्यायोगैः क्रियाया असिद्धिरिति । पुनरुक्तिदोपाच्च वेदादेरप्रामाण्यमभ्यासे। पदात्तिरभ्यासः पदावर्तने देश्यमाने खलु वाच्यमाने त्रिः प्रथमामन्वाह त्रिरुत्तमामिति पुनरुक्तो दोपः । पुनरक्तं हि प्रमत्तवाक्यभिति। तत्र सिद्धान्त उच्यते-वेदादिशास्त्राणामप्रामाण्यं “न कम्मकते साधनवैगुण्यात।" अनृतदोषो हि न वेदादेः। पुत्रकामेष्टौ हि यत्र कर्मकर्त साधनवैगुण्यं भवति तदा न पुत्रजन्म स्यात् । सम्भोगो दम्पत्योः, कर्म कर्तारौ दम्पती, इप्टिः करणं साधनम् । त्रयाणां गुणयोगात् पुत्रजन्म, वैगुण्याद्विपर्ययः। पुत्रेष्टिकरणेऽपि सम्भोगस्य कर्मणो वैगुण्यं-पाचाभ्यां शयानायामनुत्तानायां वा निषेकः समीहा भ्रशश्च । कत्त वैगुण्यम् - अविद्वान् याजकः कपूयाचरणश्च । साधनवैगुण्यं हविरसंस्कृतमुपहतमित्येवमादि। न च व्याघातः। “अभ्युपेत्य कालभेदे दोषवचनात् ।” न हि हवने व्याघातः। योऽभ्युपगतं हवनकालं भिनत्ति ततोऽन्यत्र जुहोति तत्रायमभ्युपगतकालभेदे दोष उच्यते। श्यावोऽस्याहुतिमभ्यवहरति य उदिते जुहोतीत्यादि, तदिदं विधि-शे निन्दावचनम् । न च पुनरुक्तदोपोऽभ्यासे। “अनुवादोपपत्तेश्च ।” अनर्थकोऽभ्यासः पुनरुक्त उच्यते। अर्थवांस्तु खल्वभ्यासोऽनुवादः। न पुनरुक्तः, उपपत्तेः। सोऽयमभ्यासस्त्रिः प्रथमामन्वाह त्रिरुत्तमामित्यनुवादो हुपपद्यते. ऽर्थवत्त्वात् । इदमहं भ्रातृव्यं पञ्चदशावरण वाग्वजण अववाघे योऽस्मान् द्वेष्टि यञ्च वयं द्विष्म इति। पञ्चदश सामिधनीर्वज मन्त्रोऽभि
"नीरजस्तमसो मृपा' इति पाठः सुगमः ; एतच्चाप्तलक्षणं सहजाप्तब्रह्मायभिप्रायेण, लौकिकानान्तु
For Private and Personal Use Only