________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः सूत्रस्थानम् ।
४६७ भावान्न तदीश्वररूपेणाभिनिप्पतिसिद्धिः। तदा हि स योगी न मुक्तो देहसद्भावात्, न वा बद्धो बन्धकारणाविवेकाधभावात्, नोभयथाप्यसत्कारवम् । योगसमाधित ईश्वरसाक्षात्करणे खलु मुक्तखाभावे बन्धाभावे चासत्कारखं न भवति। यतः, “तत्सन्निधानादधिष्ठितलं मणिवत्” जवाकुसुमादिसन्निधानाद यथा स्फटिकादौ मणौ तत्कुसुमामाधिष्ठितवं भवति तथा योगसमाधित ईश्वरसाक्षात्करणेन तदीश्वरसन्निधानात् तदीश्वरेणाधिष्ठितलं तस्य योगिनः स्यात्। “तेन हि विशेषकार्यमिति जीवानाम्” सिद्धयोगसमाधीनां जीवतां जीवानां विशेषकार्यगिति प्रशंसा । विशेषकाव्येन्तु तेषां "सिद्धरूपबोद्धखाद् यथार्थोपदेशः' । सिद्धयोगसमाधियोगिनां जीवतामीश्वरसन्निधानादीश्वराधिष्ठितखात् सिद्धरूपाणां यद् यद्वस्तु यद्र,पं तत्तद्र पाणां याथायन बोद्ध त्वात् सर्वेषां भावानां यथार्थोपदेशः कार्यविशेषः सिद्धयोगसमाधेरिति । एवं यथार्थोपदेशशक्तिस्तु सिद्धयोगानाम् । “अन्तःकरणस्य तदुज्ज्वलितत्वाल्लोहवत्” ईश्वराविष्ठानेन सिद्धयोगानामन्तःकरणस्य खल्वात्मनो मनसो महत्तत्वस्य रजस्तमसोरपनयनात् केवलसात्त्विकत्वे तत्सात्विकमहताधिष्ठितत्वान्मनसोऽपि रजस्तमसोर्व्यपगतत्वादुज्ज्वलितत्वादत एव रजस्तमोभ्यां निमुक्ता योगिनो भवन्ति। लोहवत्। स्पर्शमणिस्पर्शनेन यथा लोहस्य मलापहरणेन सुवर्णभावादुज्ज्वलितत्वं तीक्ष्णत्वं वा तथान्तःकरणस्येति कपिलवचनेन स्पष्टं रजस्तमोभ्यां निर्मुक्तत्वमिति । त्रिविधं रोगविशेषविज्ञानीय च वक्ष्यते। तत्रोपदेशो नामाप्तवचनम्, आप्ता ह्यवितर्कस्मृतिविभागविदो निष्पीत्युपतापदर्शिनः। तेषामेवंगुणयोगाद् यद्वचनं तत् प्रमाणम् । अप्रमाणं पुनमंत्तोन्मत्तमूर्खवक्त दृष्टादृष्टवचनमिति ; आप्तवचनं वेदादिक मिह वक्ष्यते। कपिलेनाक्षपादेन चोक्तम्“आप्तोपदेशः शब्दः” इति। तत्र शब्यते उपदिश्यते योऽर्थः स शब्द इत्यविरोधः। यत् पुनर्वक्ष्यते रोगभिषगजितीये-शब्दो नाम वर्णसमाम्नायः। स चतुर्विको दृष्टाश्चादृष्टार्थश्च सत्यश्चानृतश्चेति। तत्र शब्द्यतेऽर्थ उपदिश्यतेऽनेन वर्णसमानायेनेति शब्द इत्यविरोधस्ताभ्यामिति। अथात्र विप्रतिपद्यन्ते--अस्तु दृष्टार्थश्चैव सत्यः शब्द आप्तोपदेशः प्रमाणमर्थस्यावधारणात् । अनृतश्च दृष्टार्थादृष्टार्थः शब्दो यो वेदादिः ।
मिथ्याज्ञानरागह परूपं रजस्तमोनिम्मुक्त सावगुणोद्रेकादमलविज्ञाने न सम्भवतीत्यर्थः ; यदि वा,
For Private and Personal Use Only