________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६६ चरक-संहिता।
[तिस्रपणीयः इति ।” शिष्टा इति। स्वशक्तिवलेन कार्याकाय्यं हिताहिते नित्यानित्ये प्रवृत्तिनिवृत्त्युपदेशस्य चिकीर्षया, प्रयुक्ता यथार्थशासनमर्थस्य शिष्टिः, तया प्रवत्तेन्ते इति शिष्टाः। एवं विबुद्धा इति । विशिष्टा यथार्थभूता बुद्धिस्तया प्रवत्तेन्ते ये ते विबुद्धा इति। तत्र प्रश्नः-सत्यं वक्ष्यन्ति ते कस्मादिति । तत्रोत्तरम्-नारजस्तमसो मृषा। तपोज्ञानबलेन सहजखेन च रजोस्तमोभ्यां निम्मुक्तवादरजस्तमसो जनस्य न मृपा मिथ्यावचनमस्ति । 'नीरजस्तमसोऽमृषा' इति पाठेऽपि स एवार्थः । अमृपा इति बहुवचनान्तपाठे नीरजस्तमसो जनाः। अमृषा नास्ति मृषावचनं येषां ते। 'असत्यं नारजस्तमाः' इति पाठे अरजस्तमाः पुरुषा नासत्यं वक्ष्यन्ति। अतिशयेनारजसः पुरुषा अरजस्तमाः पुरुषा असत्यं न वक्ष्यन्ति । रजसो निवृत्तौ तमोनिवृत्तेने हि तमो विना रजो वर्त्तत इति। ननु येषां रजस्तमोमयशरीरखेऽपि रजस्तमोनिम्मुक्तं सहज सहजमेव चित्तं तेषां त्रैकालमव्याहतममलं ज्ञानं सत्यवचनश्च भवतु। ये पुनस्तपोज्ञानवलेन रजस्तमोभ्यां निम्मुक्तास्ते कथं सत्यमेव वक्ष्यन्तीति चेत् ? न। तपोयोगसमाधिसिद्धौ परमेश्वरसाक्षात्करणेन तदुज्ज्वलितचित्तवात् । सांख्ये कपिलेनाप्युक्तम्---“योगिनामबाह्यप्रत्यक्षखान दोपः”। योगिनां योगसमाधौ वाह्यत्तिनिरोधेऽप्यवाह्यानामाभ्यन्तराणामर्थानां मनसा प्रत्यक्षवान प्रत्यक्षलक्षणे न्यूनत्वदोषः। “लीनवस्तुलब्धातिशयसम्बन्धाद्वा”। योगिनां योगकाले तत्र तत्र संयमदेशे यत्र लीनं चित्तं भवति तत्तद्वस्तुनि लब्धो योऽतिशयोऽर्थस्तत्सम्बन्धाञ्चित्तस्य तदाकारोल्लेखाविज्ञानस्य योगजं नाम प्रत्यक्षमुच्यते। तस्माद्वा प्रत्यक्षलक्षणे न न्यनखदोषः । तहि योगिनामीश्वरे संयमादीश्वराकारेणाभिनिष्पत्ती द्रष्टुरभावात् प्रत्यक्षानुपपत्तिरिति चेत ? न। "ईश्वरासिद्ध.” योगिनां समाधौ खल्वीश्वर संयमात् पृथिव्यादीनां मनसि मनसश्च प्रज्ञाने लये प्रज्ञानस्य तामसस्य महतो राजसे महत्तत्त्वे लये राजसस्य महतः सात्त्विके महति लये सात्त्विको महाश्चितमित्यात्मनोऽभिधीयते। तेन प्रज्ञानेन प्राज्ञ एष आत्मा खल्वव्यक्ताखाः सपत्रिगुणलक्षण इश्वरं रसमेव लब्ध्वानन्दी भवति, न खीश्वररूपेणाभिनिष्पद्यते। "युक्तवद्धयोरन्यतराभावान्न तत्सिद्धिः” । योगिनामीश्वर संयमादीश्वरसाक्षात्करण मुक्तवद्धभावान्यतरा
पुरुषे तमो भवति ; यदुक्त-"नारजस्कं तमः” इति ; वक्ष्यन्ति ते कस्मादसत्यं ? न कस्मादपीस्यर्थः ; असत्यं मिथ्याज्ञानाद्वाऽभिधीयते, सम्यग्ज्ञानेऽपि रागद्वषाभ्यां वाभिधीयते ; तच्च त्रितयमपि
For Private and Personal Use Only