________________
Shri Mahavir Jain Aradhana Kendra
११श अध्यायः,
www.kobatirth.org
सूत्रस्थानम् ।
४६५
।
तत्प्रामाण्ये सव्वाणि प्रमाणानि न प्रतिषिध्यन्ते इति विप्रतिषेधो न स्यादिति । त्रैकाल्याप्रतिषेधश्व शब्दाद्यातोद्यसिद्धिवत् तत्सिद्धेः । प्रत्यक्षादीनामप्रामाण्यrant प्रतिषेधो न युक्तः । तत्रैकमुदाहरण' दर्शयति-- शब्दाद्यातोयसिद्धिवदिति । यथा पश्चात्सिद्धेन शब्देन पूव्वं सिद्धमातोद्यमनुमीयते । साध्यञ्चातोय' साधनं शब्दः । अन्तर्हिते ह्यातोये स्वनतोऽनुमानमातोयस्य भवतीति । वीणा वाद्यते वंशी पूर्य्यत इति शब्दविशेषेणातोद्यविशेषः प्रतिपद्यते । तथा पूर्वसिद्ध वस्तूपलब्धिहेतुना प्रतिवद्यते । एवं शेषमुदाहर्तव्यमिति । इत्येवमाप्तोपदेशादीनां प्रामाण्ये सिद्धेऽपि प्रमेयत्वं न सिध्यति । यद्धि प्रमाणं न तत् प्रमेयं भवितुमहेति स्वज्ञानसाधनत्वाभावात् स्वस्येत्यत उच्यते । प्रमेयता च तुलाप्रामाण्यवत् । गुरुत्वपरिमाणज्ञानसाधनं तुलाप्रमाणं ज्ञानविपयो गुरुद्रव्यं सुवर्णादि प्रमेयम् । यदा तु सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरप्रतिपत्तौ सुवर्णादि प्रमाणं तुलान्तरं द्रव्यं प्रमेयमिति । एवमकेन प्रमाणेनापरं प्रमाण यदा प्रमीयते तदा प्रमेय, यदा तेन किञ्चित् प्रमीयते तदाप्रमाणमिति । तद्यथा प्रमेयेष्वात्मा पठित इच्छादिभिलिङ्गैरनुमीयते । स एव घटादुपलभ्धी प्रमाता यथा घटं पश्यतीत्येवमादि । एव बुद्धिश्च प्रमेयेषु पठिता । सा पुनरिन्द्रियार्थसन्निकर्षोत्पन्नाऽव्यमिचारिण्यव्यपदेश्या व्यवसायात्मिका प्रत्यक्षं प्रमाणम् । तथा हि प्रमीयते घटादिरिति । उपलब्धिविषयत्वात् तु प्रमेयमुभयाभावात् प्रमितिरित्येकया बुद्धया बुद्धिरपरा प्रमीयत इति प्रमाणमपि प्रमेयमिति वात्स्यायनाक्षपादौ ।
अथातोपदेशाचीनत्वात् प्रत्यक्षादीनां प्रथममाप्तोपदेशं निरूपयितुमाप्त लक्षयति- आप्तास्तावदित्यादि । रजस्तमोभ्यामिति । तपस्तपस्या, ज्ञानं योगसमाधिसिद्धिजातं तत्त्वज्ञानं तदेव बलमिति । तपोज्ञानबलेन ये रजस्तमोभ्यां निम्मुक्ता निःशेषेण मुक्ताः, एवं येषां विनापि तपोज्ञानबलं कालममलमव्याहतं ज्ञानं सदा वत्र्त्तते, ते तपोयोगसमाधिसिद्धा महर्षयो ब्रह्मादयश्च आप्ता उच्यन्ते, शिष्टा विबुद्धाश्चेत्यनर्थान्तरम् । वात्स्यायनचाह स्म—“आप्तः खलु साक्षात्कृतधर्म्मा यथादृष्टमर्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । साक्षात्कारणमथेस्याप्तिः, तया प्रवत्तेत इत्याप्तः । ऋध्यायम्लेच्छानां समानं लक्षणम् । तथा च सव्वेषां लोके व्यवहाराः प्रवर्त्तन्त
प्रत्ययान्तः शब्दः, तेन, नीरजस्त्वपकर्षेण तमोऽपि व्युदस्तं भवति
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ܪ
न हि सर्व्वथा नीरजस्के