________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२ चरक-संहिता।
[ तिस्त्रैषणीयः रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये।
येषां त्रैकालममलं ज्ञानमव्याहतं सदा ॥ उपलब्धिसाधनं ज्ञानं परीक्षाप्रमाणमित्यनान्तरं समाख्यानिर्वचनसामर्थ्यात् । परीक्ष्यते यया बुद्धया सा परीक्षा साधनं परीक्षा। प्रमीयतेऽनेनेति करणार्थाभिधानः प्रमाणशब्दः। एषां चतुणी परीक्षावं प्रमाणलमेभिर्यदुपलभ्यते तदुपलब्धिव्यापारः। स चाप्तोपदेशोक्तिराप्तोपदेशवम् । इन्द्रियार्थसन्निकर्षजन्यवं प्रत्यक्ष खम्। लिङ्गलिङ्गिसम्बन्धजन्यत्वानुमानखम् । बहुकारणोपपत्तिकरणं युक्तित्वमिति। न लातोपदेशादिचतुष्कान्यतमत्वं प्रमाणवं तदन्यतमलस्य तत्तदेकैकत्तिखेन चतुष्कत्तिखाभावात्। अथ न परीक्षाचतुष्कमैतिद्यार्थापत्तिसम्भवाभावानामपि परीक्षाखात्। नैवमैतिह्यस्याप्तोपदेशेऽर्थापत्तिसम्भवाभावानामनुमानेऽन्तर्भावात् । एपां प्रामाण्यं दर्शयिष्यते। पूर्व परीक्षेव परीक्ष्यते। आप्तोपदेशादीनामप्रामाप्यं त्रैकाल्यासिद्धः। आप्तोपदेशादीनां प्रमाणत्वं नास्ति त्रैकाल्यासिद्धेः। प्रमेयाणां पूर्वकालपरकालसहभावकालत्तेरनुपपत्तेः। पूर्व प्रमेयात् प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात प्रत्यक्षोत्पत्तिः। गन्धादि विषयकं ज्ञानं प्रत्यक्षं यत् तद् यदि प्रमेयात् पूर्व पश्चाद्गन्धादिप्रमेयसिद्धिस्तदा इदं गन्धविपयज्ञानमिन्द्रियार्थसन्निकर्षान्नोत्पद्यते, पश्चात् सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः। प्रमेयात् पश्चात् प्रमाणं सिद्धमिति चेत् तदा प्रमाणे खल्वसति केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् ? प्रमाणेन हि प्रमीयमाणोऽर्थः प्रमेयमिति सिध्यति । युगपसिद्धो प्रमाणप्रमेययोः प्रत्यर्थनियतत्वात् क्रमवृत्तिखाभावो बुद्धीनाम् । यदि प्रमाण प्रमेयमिति द्व युगपद्भवतः तहि च गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रतिविषयनियतानि युगपत् स्युरिति ज्ञानानां प्रतिविषयनियतखात् क्रमवृत्तित्वाभावः। या इमा घ्राणजादिबुद्धयः क्रमेणार्थेषु प्रवर्तन्ते तासां क्रमत्तिवं न सम्भवतीति व्याघाततश्च युगपज्ज्ञानानुपपत्ती मनसो लिङ्गमिति मनो ह्यणु चैकं न युगपदनेकेष्विन्द्रियेषु प्रवर्त्तते तस्मात् क्रमत्तित्वं बुद्धीनां ततो विषयाणां युगपद्भावेन प्रमेयत्वमनुपपन्नमिति ; तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न सम्भवति
निम्मुताः, तपोज्ञानबलेनेति रजस्तमोनिम्मुक्तौ कारणत्वेन योजनीयं, त्रिकालमिति अतीतानागतवर्तमानविषयम्, अमलमिति यथार्थवाहित्वेन, अव्याहतमिति क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन;
For Private and Personal Use Only