________________
Shri Mahavir Jain Aradhana Kendra
११श अध्यायः |
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयम् । सत्यं वक्ष्यन्ति ते कस्मान्नीरजस्तमसो मृषा ॥ ६ ॥
४६३
इति । अत्रोच्यते--उपलब्धिहेतोरुपलब्धिविपयस्य चार्थस्य पूर्वपरसहभावादयथा दर्शनं विभागवचनम्। कचिदुपलब्धिहेतुः पूर्व पञ्चादुपलब्धिविषयः । यथादित्यस्य प्रकाश उत्पन्यमानानाम् । कचित् पूर्व्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुर्यथावस्थितानां प्रदीपः । कचिदुपलब्धिहेतु रुपलब्धिविषयश्च सह सम्भवतो द्वौ यथा धूमेनाग्नेग्रहणमिति । उपलब्धिहेतुश्च प्रमाणं नाम परीक्षा प्रमेयन्तुपलब्धिविषयः परीक्ष्यः । एव प्रमाणप्रमेययोः पूर्व्वपरसहभावे खल्वनियतेऽर्थो यथा दृश्यते तथा विभज्य वाच्य इति । तत्रैकान्तेन प्रतिषेधानुपपत्तिः सामान्येन खलु विभज्य प्रतिषेध उक्त इति समाख्या हेतोर्हानोपादानोपेक्षाबुद्धिजनकव्यवसायप्रवत्तन्या बुद्धेस्त्रैकाल्ययोगात् । तथाभूता समाख्या । यत् पुनरिदं पश्चात् सिद्धे च प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति विज्ञायत इति । प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं व्यवसायप्रवर्त्तनाधर्मो निमित्तं तस्य त्रैकाल्ययोगः । उपलब्धिमकान उपलब्धिं करोति, उपलब्धिं करिष्यति इति समाख्याहेतोस्त्रैकाल्ययोगात् समाख्या तथाभूता । प्रमितोऽनेनार्थः प्रमीयते प्रमास्यत इति प्रमाणम्। प्रमितं प्रमीयते प्रमास्यत इति च प्रमेयम् । एवं सति भविष्यति अस्मिन् हेतुत उपलब्धिः प्रमास्यतेऽयमर्थः । प्रमेयमिदमित्येतत् सर्व्वं भवतीति । त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुपपत्तिः । यश्चैवं नाभ्यनुजानीयात् तस्य पाचकमानय पक्ष्यति लावकमानय लविष्यति इति नोपपद्यत इति ।
1
अथाप्तोपदेशादीनामप्रामाण्यं त्रैकाल्यासिद्धेरित्येवमादिवाक्येन प्रमाणप्रतिषेधे खल्विदं भवान् प्रष्टव्यः । अनेन प्रतिषेधेन भवता किं क्रियत इति ? किं सम्भवः प्रमाणानां निवर्त्तते, अथासम्भवो ज्ञाप्यत इति ? यदि तत्सम्भवो निवत्येते सति सम्भवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः । यो हि घटं दृष्ट्वा आह अयं घट इति तत् प्रमाणमेव न वघटः स इति तत्प्रतिषेधो निष्फलः । अथ यद्यसम्भवो
For Private and Personal Use Only
आप्तं रजस्तमोरूपदोपक्षयः, तद्युक्ता आप्ताः शासति जगत् कृत्स्नं कार्य्याकार्य्यप्रवृत्तिनिवृत्त्युपदेशेनेति शिष्टाः, बोद्धव्यं विशेषेण बुद्धमेतैरिति विबुद्धाः; आप्ताः शिष्टाः विबुद्धा
* असत्यं नीरजस्तमाः इति काचित्कः पाठः ।