________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्यायः |
सूत्रस्थानम् ।
न परीक्षा न परीच्यं न कर्त्ता कारणं न च । न देवा नर्षयः सिद्धाः कर्म्म कर्मफलं न च ॥ नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः । पातकेभ्यः परञ्चैतत् पातकं नास्तिकग्रहः ||
४८६
इत्येवं परनिर्माणवादनिरासे प्राणिनां जन्मकारणं यदृच्छा माहुरपरे ये नास्तत्रापि युक्तिविरोधं दर्शयति-न परीक्षेत्यादि । अपरे ये जना भाषन्ते प्राणिनां जन्मकारणं यदृच्छेति । या इच्छा यदृच्छा नाम यथा यस्य जन्म तथा तस्य जन्म स्यादकारणं देवनरादीनां स्वस्खलक्षणचैतन्यादिमत्त्वेन जन्म स्यादितरेषामचेतनत्वेन । नास्ति तु तत्र कारणमाकस्मिकमेव जन्म सव्र्व्वेषा - 23 मिति । तत्रायं युक्तिविरोधः । यदृच्छोपहतात्मन उपहत आत्मा नास्त्यात्मेति यस्य तस्य नास्तिकस्य न परीक्षास्ति प्रमाणं नास्तीति चेत् तदा परीक्ष्यमपि नास्ति, परीक्षणीयाभावात् तु मातृपितृदुहितृभगिनीदारगुरुद्ध सिद्धादिरूपेण परीक्षणाभावे यदृच्छाचरणप्रसङ्गः स्यात् । नास्ति च तस्य कर्म यत् कृत्वा शुभाशुभ फलं प्राप्नोति । नास्ति हि तस्य कर्मफलं शुभमशुभं वा ।
For Private and Personal Use Only
प्रत्यभावावबोधिनीति भावः एवं मन्यते परेणैश्वय्र्यादिगुणयुक्त नात्मविशेषेणैतच्च शरीरं क्रियमाणं चेतनाहेतुभूतानतिरिक्तात्मसम्बन्धमन्तरा चेतनायुक्तं कर्त्तुं न पार्खेत, घटादिवत् अचेतनत्वप्रसङ्गात् ; चेतनाहेतुश्वात्मा नित्यत्वेन न क्रियते, तस्माच्चेत नाहेतुनित्यत्वेन जन्मान्तरसम्बन्धिनमात्मानं गृहीत्वा शरीरं चेतनं परः करोतीति स्वीकरणीयम् । एवमपि चेश्वरदरिद्रादिजगद् वैचित्रप्रदर्शनात् आत्मनो धर्म्माधर्म्मयोगवैचित्र्य कल्पनीयम् । तथाच सत्यात्मन व धर्माधर्मसहायता अवश्यं स्वीकरणीया, तस्मात् स एव शरीरादुत्पत्तौ कारणमस्तु किमपरेणेहात्मविशेषकल्पनेन यदि वा, एवमात्मन्यनेकजन्मसम्बन्धिनि संसारहेतुधर्माधर्मगुणशालिनि सिद्ध अस्तु सोऽप्यात्मा विशेषकारणमतो न काचित् क्षतिरिति ।
;
यच्छावादिमतं दूषयति-- न परीक्षेत्यादि । यच्छावादी खल्वेकमपि प्रमाणं नानुमन्यते, ततश्च तस्याप्रामाणिकत्वात् प्रमाणं विनैव यत् किञ्चिद् ब्रुवतो न श्रद्धेयं वचनं भवति, तस्मादुपेक्षणीयमिति प्रकरणाभिप्रायः यदृच्छयाऽपरिस्थितपक्षतयोपहत इहलोक - परलोकानुपयुक्त आत्मा यस्य स यदृच्छोपहतात्मा, तस्य परीक्षा नास्तीति परीक्षाहेतूनां प्रमाणानामभावादित्यर्थ, परोक्ष्यमपि नास्ति परीक्षकप्रमाणाभावादेव एवं कर्त्तापि नास्ति तत्कारणमपि नास्ति, प्रमाणास्वीकारादिति भावः । तथा सर्व्वजनसिद्धा देवादयोऽपि न सम्भवन्तीत्यभिधानेन नास्तिकस्य वज्र्जनीयत्वं दर्शयति पातकेभ्यो ब्रह्मबधादिभ्यः परं श्रेष्ठ,
5