________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८८ चरक-संहिता।
[तिवैषणीयः अनादेशचेतनाधातोर्नेष्यते परनिर्मितिः ।
पर आत्मा स चे तुरिष्टोऽस्तु परनिर्मितिः॥ विभागाभ्यां चेतनान् देवनरादीनारभन्ते इति युक्तिविरोधाजन्मकारणं स्वभावमेवेति श्रुतिन कारणं परलोकनास्तिखस्थापनायामिति । ___ अथ परनिर्माणवादिन आहुः----स्वभावमात्रं जन्मकारणं नास्तु। परनिर्माणन्तु जन्मकारणम् । परो हेोकः कश्चित् पुरुषः प्रसिद्धोऽमितसङ्कल्पोऽस्ति स्रष्टा। स एव खलु मनः शरीरं निर्माति यथा तथा चात्मानमपि निर्माय चेतनं सर्व देवनरादिकं निर्माति सङ्कल्पादेव, तस्मान्नित्य आत्मा नास्ति ; य इतः प्रेत्य परलोकं गखोषिखा भोगावसाने पुनरिह भवतीति । तन्नित्यस्यात्मनो नास्तिवान्नास्ति परलोको नास्ति कर्म नास्ति कर्मफलं नास्ति प्रत्यभाव इति । अत्र युक्तिविरोधं दर्शयति-अनादेरित्यादि । अनादिः खलु चेतनाधातुरव्यक्तं नाम सदसदात्मकं नित्यम् ; स आत्मा नित्यस्तस्य परनिर्मिति नेष्यते नोपपद्यते। यदि हि पूर्वप्रसिद्धः स आत्मा न वर्तते परस्तु पुरुषः किमुपादानमात्मानं निर्माति यतश्चैतन्यादीनि जायन्ते न च भूतैरचेतनश्चेतनं शक्नोति निर्मातु भूतानां चैतन्यादिलक्षणखाभावात् । संघाते च मदशक्तिवन कार्यविरोधिना कर्मणा सविरुद्धं कम्मे पदार्थश्चैतन्यादिगुणवात् । स च परः पुरुषः खलु नात्मा कथं चेतनः सम्भवति इत्यत आह....पर आत्मत्यादि। परशब्देनेह खल्वात्मा स एव निर्मातीति हेतुश्चेदिष्टः स्याद भवतां तदास्माकं मतेऽप्यस्तु परनिम्मितिः। तस्मादात्मास्ति नित्यः । स एव काले स्थूलमिदं शरीरं विहायेतः प्रत्य लोकान्तरं गखोषिवेह कृतकर्मणः फलमुपभुख्य तत्र भोग्यभोगावसानेऽत्र भोग्यभोगार्थमिह पुनर्भवतीति सिध्यति। तस्मा. दस्त्यात्मा नित्यः, कम्मे चास्ति, कर्मफलश्चास्त्यस्ति च परलोकोऽस्ति च पुनर्भव इति । प्रत्यभावः स्वीकृतो भवति भावः। परनिर्माणपक्षं दूपर्यात ---अनादेरित्यादि। अत्र परनिर्माणपक्षे शरीरस्यात्मरहितस्य परेण निर्माणं वाभिप्रेतं स्यात्, आत्मनो वापि परेण निर्माणमभिप्रतं स्यात् ; तदात्मनः परनिर्माणं दूषयति-अनादेरिति । नित्यस्य चेतनाधातोरित्यात्मनः, नेष्यते नित्यस्योत्पादककारणाभावादिति भावः, नित्यत्वञ्चात्मनः शारीरे प्रतिपादयिष्यति। अथ शरीरमात्रस्य निर्माणमभिप्रेतं तदनुगतमेव, परेणात्मना धमाधर्मसहायेन तस्य क्रियमाणस्वादित्याह--पर इत्यादि। हेतुरिति शरीरोत्पादे हेतुरिट इत्यर्थः, अस्तु परनिर्मितिरीहशी
For Private and Personal Use Only