________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्यायः
४८७
सूत्रस्थानम् । घटादिस्वभावेन जायन्ते। इति नास्त्यात्मा, ततो नास्ति परलोकः, नास्ति च पुनर्भव इति। तत्राभिधीयते न स्वभावमात्रसिद्धिर्भावानामापेक्षिकलात् । अपेक्षाकृतमापेक्षिकम् । भावानां स्वेन भावेन जन्मसिद्धिन भवति कारणान्तरापेक्षिकत्वात् । स्खो भावो धम्मः स्वभावः। कः पुनः खो धौ भावानाम् ? यदयत् स्वस्खलक्षणयुक्तमाकाशादीनां तथान्येषाश्च यद्यत् स्वखलक्षणं तत्तत् सव्वं तस्य स्वभावः । तेषांखल्याकाशादीनां विनात्मानं चैतन्यकृतस्वभावाभावादे वनरादिषु तैरारब्धेषु चैतन्यादिसम्भवो न स्यात, अपेक्षते च चैतन्यहेतुमात्मानमेव । तत्राहुः स्वभावकारणवादिनः--भावानां स्वभावः स्वरूपम्। स्वं रूपं देवनरादिरूपं चेतनं तत्स्वरूपेण देवनरादयो जायन्ते विनात्मानं पञ्चभिरेव भूतैरिति स्वभाव एव जन्मकारणं नात्मा। तस्मात् नास्त्यात्मा नास्ति परलोको नास्ति च पुनर्भव इति। तत्राह न स्वभावसिद्धिर्भावानागापेक्षिकखात्। स्वभावस्तत्र चेतनानां जन्मसिद्धौ किमपेक्षते, इत्यत आह - संयोगे चेत्यादि। चेतनस्यारम्भे विनात्मानं पञ्चभिर्भूतैः अचेतनस्तेषां पञ्चानां संयोगे च विभागे च पुनःपुनः संयोगविभागाभ्यां देवनरादिस्वरूपस्य निर्माणे तेषां कम्मैव तत्संयोगविभागे कारणमपेक्षणीयं भवति। सत्यपि भूतानां क्रियावत्त्वे तेषामचेतनखान प्रवृत्त्यसम्भवो विना चैतन्यहेतुमात्मानमिति । तत्र चेदुच्यते .यथाकाशादिष्वनभिव्यक्ताश्लक्ष्णसादयो गुणास्तथा चैतन्यादयोऽप्यनभिव्यक्ताः सन्ति। कार्यारम्भे पश्चानां संयोगे श्लक्ष्णखादिवदभिव्यज्यन्ते। ततः कारणगुणपूवेकः कार्यगुणो दृष्ट इति । नवम्, अनभिव्यक्तश्लक्ष्णवादिगुणवदाकाशादीनां कस्याप्यनभिव्यक्तचैतन्यगुणानामाप्तैरुपदेशस्याभावात्। तत्रापि चेदुच्यते-पृथिव्यादीना. मुपचयसंघातादिकर्माभिरारभ्यमाणे देवनरादौ कार्यविरोधिवात कर्मणः स्वविरुद्धं कर्म चैतन्यादिकारम्भकवं मदशक्तयारम्भकखवदगुड़ादीनां मद्यकराणामिति। तत्र चेदमुच्यते--चैतन्यादीनां कर्मजलेन कर्मवप्रसङ्गो गुणलश्च न स्यात्। द्रव्यगुणयोर्हि सजातीयारम्भकलं द्रव्याणि हि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरं, कांसाध्यं कर्म न विद्यते । तस्मात् आत्मनाधिष्ठितानि पञ्च भूतानि चेति तानि स्वस्वकम्मभिः कृतसंयोग
सम्मतमेव, परं; तत्रापि गर्भोत्पत्तौ भूतानामात्मसम्बन्धे तथा मरणे भूतानामात्मनो वियोगे कर्म जन्मान्तरकृतं कारणं, नान्यत् : उद्भ ततद् तसंयोगकारणजन्मान्तरकृतकर्मस्वीकारात्
For Private and Personal Use Only