________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६ चरक-संहिता।
तिषणीयः विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम् ।
संयोगे च विभागे च तेषां कम्मैव कारणम् ॥ अथापरा अतिरियम् । प्राणिनां जन्मकारणं स्वभाव एव ; नात्मास्ति जन्मकारणम्, तस्मान्नास्ति परलोकः। स्वभावादेव हि जायमानेषु प्राणिषु चैतन्यादयो जायन्ते- इति ये वदन्ति, तत्र युक्तिविरोधं दर्शयति, विद्यादित्यादि। प्राणिनामुत्पत्तो कारणं पड़ेव धातवः–पञ्च महाभूतान्यात्मा चति । तेषां पण्णां धातूनां यत् स्वलक्षणं तत् स्वाभाविक खभावजं विद्यात् । अनभिव्यक्तशब्दश्लक्ष्णमूक्ष्मलघुमुटुगुणमाईवशोपियलाघवकर्माकृल्लक्षणमाकाशं स्वभावसिद्धं न तु चैतन्यादिकर्मकृल्लक्षणम्। वायुः पुनरनभिव्यक्तलघुशीतरुक्ष-खरविशद-मूक्ष्माभिव्यक्तस्पर्शगुणरोक्ष्यग्लानि-विचारवेशद्यलाघवकृल्लक्षणः स्वभावसिद्धः, न तु चैतन्यादिकृल्लक्षणः। तेजस्वनभिव्यक्ततीक्ष्णोष्णमूक्ष्मलघुरुक्षविशदाभिव्यक्तरूपगुणदाह--पाकप्रभाप्रकाशवर्णकल्लक्षणं खाभाविकं न तु चैतन्यादिकृल्लक्षणम्। आपश्चानभिव्यक्त-द्रवस्निग्धशीत-मन्द सर-सान्द्र-मृदु पिच्छिलाभिव्यक्त-रसगुण-स्नेहोपक्लेश-बन्धविप्यन्दमादेवप्रहादकुल्लक्षणाः स्वभावसिद्धा न त चैतन्यादिवृल्लक्षणाः। पृथिवी चानभिव्यक्तगुरुवरकटिनमन्दस्थिरविशदसान्द्रस्थूलाभिव्यक्तगन्धगुणसंघातोपचयगौरवस्थैर्यकल्लाणा स्वभावसिद्धा न तु चैतन्यादिकृल्लक्षणा। आत्मा तु चेतनालक्षणः सत्त्वभूतगुणेन्द्रिययोगाच्चैतन्यादिकृत्स्वभावसिद्धः । तत्रात्मानमन्तरेण केवलपञ्चभूतारब्धे प्राणिनि कथं चैतन्यादयः स्युरिति ? तत्राहुः स्वभावकारणवादिनः-पाञ्चभौतिकशुक्रशोणिताहारजरससंयोगे पञ्चभिरेव भूतैर्जायमाना देवनरादयः खलु देवनरादिस्वभावेन चेतनाः. घटादयस्वचेतनाः
स्वाभाविकवादिनो भूतचैतन्यपक्षं दूपति-- विद्यादित्यादि। स्वभावकृतं स्वाभाविक, षष्णां धातूनामिति पृथिव्यप्तेजोवारवाकाशात्मनां, एपाञ्च धातुत्वं शरीरधारणात् जगद्धारणाच्च ; स्वलक्षणमात्सीयमव्यभिचारि लक्षणं, थच्च पृथिव्याः काठिन्यादि, अपां द्रवत्वादि, तेजस उष्णत्वादि, वाबोस्तियंगगमनादि, आकाशस्याऽप्रतिघातादि, आत्मनोज्ञानादि ; एतेन, एतदेव परमेषां लक्षणं स्वाभाविक, न तावदात्मरहितानामेपान्चैतन्यमपि स्वाभाविकमस्तीति दर्शयति । ततश्च यत् प्रत्येक भूतानां न सम्भवति तन्मिलितानामपि न सम्भवति चैतन्यं, यतः, भूतानामपि संयोगादपि चैतन्यसम्भवे बहूनि चेतनानि स्युर्बाण्याद्यवस्थाभेदात्, ततश्च ज्ञातृभेदात् प्रतिसन्धानानुपपत्तिरिति भावः, आत्मसम्बन्धेन तु चैतन्यं
For Private and Personal Use Only