________________
Shri Mahavir Jain Aradhana Kendra
११ अध्यायः ।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते । येषाञ्चैषा मतिस्तेषां योनिर्नास्ति चतुर्व्विधा ॥
४८५
आत्माऽपत्यं सञ्चरेदित्युच्यते तदा तदसम्भवः; कस्मात ? सूक्ष्मस्य च यत आत्मनो निरन्तरमेव कश्चिदवयवो नास्ति । कथमवयवेनात्मापत्यं सञ्चरेदिति ? परमाणुसंयोगे हि भवत्यवयवः, स खण्डः, परमाणुस्तु
अखण्डः ।
यदि चात्मसञ्चारं नोवा बुद्धिमनसोरन्यतरस्य सञ्चाराच्चैतन्यादयो भवन्तीत्युच्यते, तत्राप्युच्यते बुद्धिरित्यादि । बुद्धिर्मश्चेति यथात्मा सूक्ष्मो निर्णीत आप्तैस्तथैव बुद्धिमनसी सूक्ष्मे निर्णीते । तयोरन्यतरसञ्चारेऽपि सब्र्व्वशेन सञ्चारे निर्बुद्धिवं निर्मनस्त्वं वा मातुः पितुर्वा स्यात् । अवयवेन सञ्चारस्तु न सम्भवति, सूक्ष्मत्वेनावयवाभावात् । इत्यपरो युक्तिविरोधः । एवमपरथ युक्तिविरोधोऽयम् - येपामित्यादि । येषामेषा “ मातापितरौ जन्मकारणम्" इत्येवं मतिस्तेषां प्राणिजन्मनि चतर्व्विधा योनिर्नास्ति 1 जरावण्डस्वेदोद्भिदभेदाच्चतुर्व्विधा प्राणिनां मुत्पत्तौ योनिरुक्ता । जरायुजानां देवनरादीनामण्डजानां पक्ष्यादीनाञ्च स्तो मातापितरो न तु स्वेदजोद्विजानामित्येवं युक्तिविरोधात् प्राणिजन्मनि मातापितरौ कारणम् । “ नात्मास्ति कारणम्” इति श्रुतिः परलोकनास्तित्वस्थापने कारण न भवति ।
For Private and Personal Use Only
त्याह,
इत्यस्थूलस्य, स्थूलानां पृथिव्यादीनामवयवा भवन्ति, न तु सूक्ष्माणामाकाशकालमनोबुद्धिप्रभृतीनां ततश्चावयवाभावादात्मनोऽवयवेन सञ्चरणं दूरमपास्तमित्यर्थः । अथ शङ्कयते, मा आत्मा मातापित्रोः सञ्चरतु, बुद्धिस्तु तयोर्मनो वापत्यं सञ्चरतु, अत एवापत्यस्य चैतन्यं भविष्यतीत्याह -- बुद्धिर्मनश्चेत्यादि । निर्णीते व्यवस्थापिते प्रमाणेन किम्भूतेनेयथैवात्मा निरवयवत्वेनावयवसञ्चरणाक्षमस्तथा तत्कालमेव मातापितृपरित्यागप्रसङ्गेन कास्नेनापि सञ्चरतुमक्षमः, तथा ते अपि बुद्धिमनसी निरवयवत्वात् नैकदेशेन सञ्चरेयातां, मातापित्रोस्तत्कालमेवाऽबुद्धिमत्त्वामनस्कत्वप्रसङ्गाच्च न कार्त्स्नेपन सञ्चरेयातामिति भावः । दूषणान्तरमाह-येषामित्यादि । मातापितराचेवापत्ये चैतन्यकारणमित्येवंरूपा ; चतुर्व्विधा योनिरिति जरायुजाण्डज संस्वेदजोद्भिज्जलक्षणा ; एवं मन्यते--संस्वेदजानां मशकादीनां तथोविजानां गण्डूपदादीनां चेतनानां मातापितरौ न विद्यते, ततस्तेषामचैतन्यं स्यात्, मातापित्रोश्चेतनकारणयोरभावादिति ।