________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४ चरक-संहिता।
(तिस्वैषणीमः आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि सञ्चरेत् । द्विविधं सञ्चरेदात्मा सवों वावयवेन वा ॥ सर्वश्चेत् सञ्चरेन्मातुः पितुर्वा मरणं भवेत् ।
निरन्तरं, नावयवः कश्चित् सूक्ष्मस्य चात्मनः॥ प्रत्यक्षातिरिक्त प्रमाणमवश्यं स्वीकार्य भवति। आगमप्रत्ययादेव ये पुनर्भवमिच्छन्ति, तदागमतो भिन्नतिरप्यस्ति--नाप्रत्यक्ष प्रमाणमिति। ततो नास्ति परलोक इति यद्वदन्ति तद् दुपणायाह-श्रतयश्चैता इत्यादि । “मातरं पितरञ्चैके मन्यन्ते जन्मकारणम्" इत्यादयः श्रतयश्च न कारणं परलोकनास्तिवस्थापनायाम् ; कस्मात् ? युक्तिविरोधात्. बहुकारणोपपत्तितस्तत्त्वशानार्थमूहविरोधात् । ___ युक्तिविरोध दर्शयितुमाह---आत्मा मातुरित्यादि। “मातरं पितरञ्चैके मन्यन्ते जन्मकारणम्” इति यां श्रुतिमाश्रित्य ये खिदमाहुः। “सिद्धैव चेतना वीजपुरुषा अनेके वैको वायमाहुरादित्यमादिभूतखात्, स एवा न नारी भूखा तस्यां विराजममृजत्” इत्येवं पारम्पय्य॑जाता इमे मातापितृभ्यां जायन्ते संहतरूपा न चैषां सन्त्यात्मानः। जायमानेष्वात्मसञ्चाराच्चैतन्यादयो भवन्तीति चेत् तदा यदि मातुर्य आत्मा यो वा पितुरात्मा स एवापत्यं सञ्चरेत, तदा द्विविधं यथा तथा किमात्मा सश्चरेत् ? तत्र किं स एवात्मा सवांशेनैव सञ्चरेत् ? अथवावयवेन कियदंशेन सञ्चरेत् ? चेत् सर्वांशेनात्मापत्यं सश्चरेत् तदा मातुश्चेदात्मा सांशेन सश्चरेत् ततो मातुर्मरणं भवेत्, यदि पितुरात्मा सर्वांशेन सञ्चरेत् तदा पितुर्वा मरणं भवेत् इत्येको युक्तिविरोधः। अपरश्चायं युक्ति विरोधः । यद्यवयवेन कियदंशेन युक्तिविरोधादपपत्तिविरोधात्। अपत्यशरीरे मातापित्रोः कारणत्वमनुमतमेव, यतस्तथाविधौ मातापित्रोः कारणत्वे सत्यपि चैतन्यहेतोरात्मनः परलोकादागमने प्रत्यभावोऽखण्डित एवेति । चैतन्यमपत्यस्य, मातापित्रोरपि चैतन्यहेतुर्य आत्मा तत एव भवतीति यो मन्यते, तं प्रत्याह, भारमा मातुरित्यादि । द्विविधं द्विप्रकारं, सव्व इति मातरं पितरं परित्यज्यापत्यं गच्छेत् ; अवयवेनेति एकोऽवयवो वा आत्मनो मातरि पितरि वा तिष्ठेत्, अन्यश्चैकदेश आत्मनोऽपत्यं गच्छेत् । प्रथम-पक्षे दूषणमाह-सर्वश्चेदित्यादि। निरन्तरमिति च्छेदः, निरन्तरं तत्कालमेव, यदि मातुरात्मा अपत्यं सञ्चरेत्, तदा तत्कालं मातुर्मरणं, यदि तु पितुरात्माऽपत्यं सञ्चरेत्, तदा तत्कालमेव पितुर्मरणं स्यादिति । द्वितीयं पक्षं दृषयति-- नावयव इत्यादि। सूक्ष्मस्य
For Private and Personal Use Only