________________
Shri Mahavir Jain Aradhana Kendra
११श अध्यायः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
सूत्रस्थानम् । तस्मादपरीक्षितमेतदुच्यते प्रत्यक्षमेवास्ति नान्यदस्तीति । श्रुतयश्चैता न कारणं युक्तिविरोधात् ।
प्रत्यक्षानुपलब्धिः, यथा वीणादिवाद्यश्रवणासक्तचित्तस्य पार्श्वस्थानां वाक्याश्रवणम्, कान्तामुखमे क्षणासक्तचित्तस्य वा पार्श्वस्थ पुरुषाणामदर्शनम् । एतेन नास्तिकस्य मनः सन्निकर्षमन्तरेण प्रत्यक्षोपलब्धिवादो निरस्तः । ननु यद्यतिसन्निकृष्टानां ग्रहणयोग्यसन्निकर्षेण प्रत्यक्षोपलब्धिः स्यात् तदातिविप्रकृष्टानां ग्रहणाहसन्निकर्षेण प्रत्यक्षोपलब्धिः स्यात् तथा चावरणाच्छन्नानामावरणोद्वाटेन प्रत्यक्षोपलब्धिः स्यात् । तथा च चक्षुरादिदोव्बल्ये ग्रहणयोग्यसन्निकर्षेण रूपाणां प्रत्यक्षोपलब्धिः स्यात् तथा मनोऽवस्थानदशायाञ्च पार्श्वस्थानां प्रत्यक्षोपलब्धिः स्यात् । भवतु । किन्तु कलायादिराशिप्रविष्टानां कलायादीनां रूपाणां ग्रहणाहसन्निकर्षेण नातिसन्निकर्षेण नातिविप्रकर्षेण अनावरणेन करणादौब्वेल्येन मनसोऽवस्थानाभावेन च समानाभिहारात् समानस्वरूपतया भेदज्ञानाभावादयं कलायो मम नायं ममेति निश्चयप्रत्यक्षोपलब्धिर्न स्यात् । यदि च समानाभिहतानामिन्द्रियसन्निकर्षेण प्रत्यक्षमुपaforरस्ति कलायलादिरूपेणैव न मदीयादितत्तत्कलायखेन तस्मात् तदप्रत्यक्षं farararaात् । किन्तु मध्यन्दिनोदितनक्षत्रादीनां सतां रूपाणां सूय्यकरादिनाभिभवान्न प्रत्यक्षोपलब्धिः । यद्यभिभवाभावे प्रत्यक्षोपलब्धिः स्यात् तदस्तु । किन्वतिसूक्ष्माणां लिक्षादिक्रिमीणां द्वाणुकादिलक्षणानां सतां रूपाणामतिसौक्ष्म्यात् चक्षुर्मानतोऽन्यप्रत्यक्षोपलब्धिः स्यात् । दर्पणविशेषेण पुनः प्रत्यक्षत्वेनोपलब्धी तेषां प्रमेयत्वसत्वात् । झणुकात्मकानां हि दर्पणादिविशेषेण त्रसरेण्वादिस्वरूपेण प्रत्यक्षोपलब्ध्यां सत्यां परमाण्वात्मकानान्तु
कात्मकत्वेनैव प्रत्यक्षोपलब्धिः स्यात् न तु त्रसरेण्वादिरूपेण प्रत्यक्षजनकदर्पणविशेषोऽस्ति । तेन दर्पणविशेषेणापि परमाणोः परमाणुत्वेन प्रत्यक्षोपलब्धिर्न सिध्यति ।
अथ निगमयति--तस्मादित्यादि । पञ्चेन्द्रियाणां प्रत्यक्षाभावात् सताञ्च भावानामतिसन्निकर्षादितः प्रत्यक्षानुपलब्धेश्व प्रत्यक्षमेवास्ति, "नान्यदस्ति प्रमाणम्” इति वचनमपरीक्षितं परीक्षकैरप्रमाणीकृतं भवति ।
इत्थञ्च
सम्प्रति श्रुतिभेदवादिमतं दूषयति-श्रुतयइत्यादि । न कारणमिति न पुनर्भवकारणमित्यर्थः;
For Private and Personal Use Only