SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ चरक-संहिता। (तिस्रेषणीय सताञ्च रूपाणामतिसन्निकर्षादतिविप्रकर्षात् आवरणात् करणदौर्बल्यान्मनोऽनवस्थानात् समानाभिहारादभिभवादतिसौदम्याञ्च प्रत्यक्षानुपलब्धिः। शब्दस्पर्शरूपरसगन्धा इन्द्रियस्य प्रत्यक्षाः सुखादयश्चात्मप्रत्यक्षा इव प्रत्यक्षाण्येपेन्द्रियाणीति, यतश्चक्षुरादीनि गोलकादिरूपाणि। न हि गोलकादिभ्यो भिन्नानि सन्त्यप्रत्यक्षाणि कानिचिदिन्द्रियाख्यानीति न वाच्यम्, इन्द्रियोपक्रमे तस्य निरस्तवात् । वातादिदोषानुपहताधिष्ठानानां वातादुरपहतेन्द्रियाणां प्रत्यक्षत एव प्रत्यक्षशानाभावाच । तस्मादधिष्ठानव्यतिरिक्तानि सन्त्यप्रत्यक्षाणीन्द्रियाणि चक्षुरादीनीति। तथा सति चाह-सताञ्चेत्यादि। नास्तिकस्य प्रत्यक्षविषयीकृतखेन वर्तमानानां रूपाणां शब्दादीनामतिसन्निकर्षादतिनैकट्यात् प्रत्यक्षानपलब्धिः प्रत्यक्षेण न ज्ञानं दीपस्येव चक्षुरादेस्तेजःप्रभृतीनामतिसन्निकृष्टे देशे प्रसारणाभावात् । यथा नयनापितकजलपक्ष्मादीनामदर्शनं तथातिविप्रकर्षादतिदूरखात् चक्षुरादेज्योतिरादेगैत्यभावात् प्रत्यक्षानुपलब्धिः। यथा अत्युद्ध गतानामुड्डीयमानानां पक्षिणामदर्शनम्। तथा तेषामावरणादाच्छादनाचक्षुरादीनां सञ्चाराभावेनालोकनाभावान्न प्रत्यक्षोपलब्धिः। यथा जलदायन्तर्गतानामदर्शनं तथा तेषां करणदौर्बल्याच्चक्षुरादिकरणानां कालेनाल्पशक्त्या प्रागभावात् पूव्वं यथाभूतानां रूपादीनां प्रत्यक्षमुपलब्धिस्तथाभूतानां न प्रत्यक्षोपलब्धिः, यथानेन दूरस्थं दृष्टवता वाद्धक्ये दशहस्तरेणापि न दृश्यते वस्तु, तथा मनोऽनवस्थानान् एकेनेन्द्रियेण अर्थान्तराभिनिविष्टस्य मनसोऽन्यत्रार्थेष्वभिनिवेशाभावात् तेषां तदन्यचाक्षुषादीनां रूपादीनां इतश्च प्रत्यक्षानुलब्धिर्न वस्त्वभावनिश्चयकारिकेत्याहसतामित्यादि। सतामित्यप्रे वक्ष्यमाणातिसन्निकर्षाद्यभावे प्रत्यक्षेणैव गृह्यमाणत्वेन सतामित्यर्थः . प्रत्यक्षानुपलब्धिरित्यतिसन्निकर्षादिभिः सह प्रत्येकमभिसम्बध्यते ; अतिसन्निकर्षादनुपलब्धिर्यथा नयनगतकज्जलादेः, अतिविप्रकर्षाद् यथा दूराकाशगतस्य पक्षिणः, आवरणाद् यथा नद्यादिपिहितस्य घटादेः, करणदौर्बल्याद् यथा कामलायपहतस्य चक्षुषः पटशौक्लयाद्यप्रतिभानं, मनोइनवस्थानाद् यथा कान्तामुखनिरीक्षणप्रहितमनसः पाङगतानां वचनानवबोधः, समानाभिहाराद, यथा विल्वराशिप्रविष्टस्य विल्वस्येन्द्रियसम्बन्धस्यापि भेदेनाग्रहणम्, अभिभवाद यथा मध्यन्दिने उल्कापातस्य; सौक्ष्माद यथा त्रिचतुर्हस्तप्रमाणदेशवर्तिनः क्रिमिविशेषलिख्यादेरग्रहणम् । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy