________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श अध्यायः
सूत्रस्थानम् । प्रत्यवं ह्यल्पमनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते। यैरेव तावदिन्द्रियैः प्रत्यनमुपलभ्यते तान्येव सन्ति चाप्रत्यक्षारिण। अत्र वादी प्राह कस्मादिति। तत्र हेतुमाह--प्रत्यक्षमित्यादि। प्रत्यक्षपरा मुनयो यदि प्रमाणान्तराण्यनुमानादीनि न मन्यमाना प्रत्यक्षमेव प्रमाणं मन्यमानाः पुनर्भवो नास्तीति वदन्ति, तज्जह्यात् तन्न ग्राह्यम् । हि यस्मात् प्रत्यक्षमल्पं; पञ्चविधं - चाक्षुषं श्रावणं खाचं रासनं घ्राणजमिति। अनल्पमपस्सिंख्येयमप्रत्यक्षमस्ति वर्तते। नन्वप्रत्यक्षं यदनल्पं भवद्भिरुच्यते, तत् अप्रमेयमस्विति । अत आह-यदित्यादि । आगमानमानयुक्तिभिः प्रमाणैर्यदुपलभ्यते तदप्रत्यक्षं वस्तु यावदनल्पमागमादिप्रमाणः प्रमेयमस्ति इति भावः । एतेन यथैवाव्यभिचारिणोऽव्यपदेश्यस्य व्यवसायात्मकस्य शानस्येन्द्रियार्थसत्त्वात्मसन्निकर्पोत्पन्नस्य प्रमाजनकखेन प्रत्यक्षप्रमाणवं भवति, तथैवाव्यभिचारिप्रमाणकवेनागमादीनि प्रमाणान्येव भवन्तीति ज्ञापितम्।। ___ नवप्रत्यक्षं यावद्भिरागमादिप्रमाणः प्रमेयाणि वस्तूनि सन्तीत्युच्यते, तानि न सन्तीति मन्यामह इति ख्यापयितुमाह-यरित्यादि। यैरेवेन्द्रियैश्चक्षुरादिभिस्तावत् प्रत्यक्षं रूपादिकमुदभूतमुपलभ्यते ज्ञायते भवद्भिर्यतस्ततस्तान्येवइन्द्रियाणि सन्ति च वत्तेन्त एव । ननु न सन्तीति वक्तुं शक्यते भवद्भिः प्रत्यक्षाभावात् तानि चाप्रत्यक्षाणि । किन्तु प्रमेयाणि सद्भावात्। तस्माचक्षुरादीनां प्रमेयवसिद्धार्थमागमादीनि प्रमाणानन्तराण्यवश्यमन्तव्यानि भवन्ति । ननु प्रत्यक्षं षड़ विधं मानसेन सह चाक्षुपादीनि इति सुखदुःखादिवदिन्द्रियादीनि मानसप्रत्यक्षाणि भवन्ति । मनसो हि चिन्त्यमर्थ इति चेत् न । चक्षुरादि. प्रमाणानान्तरावगतानामेवानुबोध्यस्य चिन्त्यखात् न बनवगतस्य । ननु सन्देहः : सा चेह प्रकृतत्वात् परलोकविषयव । अत्रेव हेतुप्रभपूर्वक हेतुमाह-कस्मादित्यादि । अप्रत्यक्षत्वात् परलोको नास्तीति प्रथमवादिमतं दृषति प्रत्यक्षमित्यादि। यथा प्रत्य प्रमाणमयभिचारिप्रमाजनकत्वेन, तथा आगमादीन्यपि तथाभूतप्रमाजनकत्वात् प्रमाणान्येव ; ततश्च प्रत्यक्षाविषयत्वेनैव यत् पुनर्भवस्य नास्तित्वं व्यवस्थाप्यते तन्न युक्तमिति प्रकरणार्थः । पुनर्भवसाधकानि चागमादीन्यग्रे वक्ष्यमाणानि सन्त्येवेति भावः ; आगमादीनि लक्षणतोऽग्रेऽभिधास्यन्ते । प्रत्यक्षाविषयत्वेऽपि यान्यन्यप्रमाणसिद्धानि सन्ति तान्याह-थैरेवेत्यादि । प्रत्यक्षमिति प्रत्यक्षविषयो घटादिः ; सन्तीतीन्द्रियोपक्रमणीयोक्तानुमानगम्यत्वादिति बोद्धव्यम् ।
For Private and Personal Use Only