________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दोघञ्जीवितोयः ते नश्यन्तीति परमव्योमरूपपरमात्मशिवादिकन्तु सत् । न तु सदनुपविष्टं सत्य तदेवास्यां सर्गावस्थायां ब्रह्म परमनित्यं शक्तिब्रह्मावशेषमहानिर्वाणपर्यन्तस्थायित्वात् । शक्तावशेषे महानिर्वाणे जायमाने तु सर्गावस्था व्यपैति शिवगायत्रीरूपश्च शक्तिर्नहाति क्रियागुणव्यपदेशरहिता सती स्वगुणनिढा भूत्वा स्थास्यतीति सा शक्तिब्रह्म सर्गप्रलयोभयावस्थिकं नित्यमसद्भतं वस्तु चोच्यते इति । समवायच तेषु तथाविधस्त्रिविधो नित्यो व्याख्यातो भवति । काव्येषु द्रव्यगुणकर्मस्खनित्यः समवायः । सेयं समवायात्मिका सत्ता समानप्रसेवात्मिका जातिः सामान्यम् । असमानप्रसवात्मिका तु सत्ता जाति म जन्म सत्ताविशेषः । तदुक्तं “जातिः सामान्यजन्मनोरिति”। सामान्यविशेषौ हि बुद्धापेक्षावन्यत्रान्त्येभ्यो विशेषेभ्यः। अन्त्याद्धि विशेषान्नान्योऽन्त्यो विशेषः सम्भवति यमपेक्ष्य सामान्यं स्यात । द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यं विशेषश्च । द्रव्यत्वं सामान्य नवसु द्रव्येषु भावात् पृथिवीत्वाद्यपेक्षया सत्तापेक्षया तु विशेषः । गुणत्वञ्च सामान्य रूपादिषु भावात रूपखाद्यपेक्षया सत्तापेक्षया तु विशेषः। कम्मखश्च सामान्यमुत्क्षेपणादिषु सद्भावादुत्क्षेपणवाद्यपेक्षया सत्तापेक्षया तु विशेषः । अनेकद्रव्यारब्धव्यवं चानेकद्रव्यवसत्त्वात् । न च तदारम्भकाणि द्रव्याणि द्रव्यवसामान्यविशेषाभावेन च कार्य द्रव्यत्वस्यापि । एतेन गुणः कर्म च व्याख्याते । कार्य गुणश्चानेकसजातीयगुणारब्धः तदनेकगुणवसद्भावात् तत्कायं गुणवमुक्तं श्यामलपीतवादि। न च तदारम्भका गुणास्तत्काय्य गुणवं सामान्यविशेषाभाबेन च। कारब्धे कर्मणि च तत्कर्मवसद्भावात् कर्मवमुक्तं न च तदारम्भक कर्म तत्कार्यकर्मत्वम् । इति द्रव्यारब्धेषु द्रवयेषु तदारम्भकाणि द्रव्याणि द्रव्यसामान्यं यथा पाञ्चभौतिकवं शरीरन्द्रियविषयसंशकानां द्रव्याणां पञ्चभूतानि सामान्य प्राणिनां नव द्रव्याणि द्रव्यसामान्यं गुणाश्च तेषां गुणविशेषारम्भका गुणसामान्यं कर्म च तेषां कारम्भकं कम्र्वसामान्यम् । - सामान्यस्य च वृद्धिकारणत्वं ह्यसति विरोधिकारणे बोद्धव्यं, तेनामलकादिगतानामम्लत्वादीनां पित्तगताद्यम्लत्वावर्द्धकत्वमामलकगतशिशिरत्वप्रभावविरोधित्वादुपपन्नम् ; एव. मन्यत्रापि त्रिदोषहरव्ये बोद्धव्यम्। इह च सामान्यस्य वृद्धिकारणत्वमित्युच्यते, न तु सामान्यमेव वृद्धि कारणमित्युच्यते, तेनासमानादपि घृतात मेधाया या च वह्नश्च वृद्धिः प्रभावादेवोपपन्ना, यदुक्त “घृतमग्निमेधे करोति, तथा चिन्तया वातवृद्धिस्तथा सङ्कल्पात् वृष्यपादयुगलेपाच्च शुक्रवृद्धिः" इत्यादि प्रभावादुपपन्नम्। सामान्यज्ञह वृद्धिकारणमित्युच्यमाने समानस्येति गम्यते, न हि शोणितं प्रति मांसत्वं सामान्यं, किन्तु व्यावृत्तबुद्धिजनक्रत्वाद्विशेष एव ।
For Private and Personal Use Only