________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः ]
सूत्रस्थानम् ।
३६.
;
विशेषाञ्च तत्तद्रव्यगुणकर्म्मारम्भकास्तत्तदद्रव्यगुणकर्म्मविशेषा इति सामान्य. भृतं द्रव्यं सामान्यभूतो गुणः सामान्यभूतं कर्म सामान्यभूतश्च समवायः सत्ता जातिरिति तथा विशेषभूतं द्रव्यं विशेषभूतो गुणो विशेषभूतं कर्म विशेषभूतः समवायः सत्ता जन्मेति द्रव्यगुणकर्मसमवायाश्चत्वारो लोके पदार्थो नास्त्यतोsतिरिक्तः पदार्थः । आयुर्वेदे भावानां वृद्धिहासादिकारणत्वेन सामान्यविशेष योरुपयोगेन द्रव्यादिषु चतुर्ष्वन्तर्भावेऽपि पृथग्वचनम । यथा वैशेषिके - ऽप्येवमेव सामान्यविशेषयोद्रव्यादिषु चतुर्ष्वन्तर्भावेऽपि पृथग्वचनमन्तरेण यथोपनिषत् तथा भवति । न वैशेषिकं नाम शास्त्र ं स्यात् । विशेषस्योपदेशेन हि वैशेषिकं भवति । सामान्यापेक्षो हि विशेष इति सामान्यस्याप्युपदेशो ऽपेक्षा ते शास्त्रसंज्ञा तु प्रसिद्धा वैशेषिकमिति । न तु सामान्यकं तत्रकतु विवक्षितत्वात् । तत्र विवक्षाशाद्धि संज्ञा तत्राणां भवतीति । एवमेवान्वीक्षिकीशासने प्रमेयेऽन्तर्भूतत्वेऽपि प्रमाणसंशयादीनां पञ्चदशानां पृथगुपादानुमन्तरेण खोपनिषद्भवति न वान्वीक्षिकीशास्त्र भवति । वादमार्गज्ञानाथं हि प्रमाणसंशयादीनां पृथग्वचनमिति । सर्व्वदेति नित्यगे काले, दुग्धपल' जलपल' वर्द्धयति वादिसामान्येन परिमाणतः । न तु पारदपलं जलपलं वैशेष्यात् । विशेषो ह्यत्र तीक्ष्णत्वमृदुखादिर्बलीयान् द्रवत्वादिसामान्यमवजयति । वक्ष्यते हि “विरुद्धगुणसमवाये हि भूयसाल्पमवजीयते” । जैमिनिना चोक्तम - “ विरुद्धधर्मसमवाये भूयसां स्यात् सधर्मकत्वमिति । एतेनात्र हासहेतुर्विशेषो व्याख्यातः । आवस्थितु कालेऽप्येवं श्लेष्मगुणसमं दुग्धं कणाशुण्ठ्याय ष्णद्रव्यसंस्कृत
ܪ
Acharya Shri Kailassagarsuri Gyanmandir
,
अथ वैशेषिक्तानामन्त्यविशेषाणामिह शास्त्र चिकित्सायामनुपयुक्तत्वात् तद्विशेषधर्मव्यावर्त्तकत्वायोगात् सामान्यविशेषानेव विशेषान् हासकारणत्वेनाह, हासहेतुरित्यादि । अत्रापि सदा सर्व्वभावाणामिति योजनीयम्; हासोऽपचयः, विशिष्यते व्यावर्त्तते इति विशेषः ; सामान्यमेव गवेधुकत्व मांसादीन् प्रति विशेषः, गवेधुको हि गवेधुकत्वेन गवेधुकव्यक्तयन्तरापेक्षया समानः, मांसापेक्षया व्यावृत्तत्वाद्विशेषः न हि मांसे गवेधुकत्वमस्ति, एवं मांसत्व मांसान्तरापेक्षयाऽनुगतत्वात् सामान्यं, शोणिताद्यपेक्षया तु मांसानां व्यावृत्तत्वाद्विशेष एव । अत्रापि ह्रासहेतुकत्व' ह्रासहेतुद्रव्यादिलक्षणत्वेन सामान्यवज्ज्ञेयं, तथा हासहेतुत्वमप्यसति विरोध के सामान्योक्तन्यायेन ज्ञ ेयं तेन मन्दकनिकुचादीनां वातादिविरुद्धानामपि स्निग्धत्वादीनां वाताथशमकत्वं द्रव्यस्यापथ्यत्वप्रभावादेव ज्ञेयम् । विशेषश्च ह विरुद्धत्वविशेषोऽभिप्र ेतः, तेनोत्तरख विरुद्धविशेषमेव हासहेतुतया तत्र तत्रोपदेक्ष्यति यथा - "वृद्धिः समानैः सर्व्वेषां भावानां विपरीतैर्विपय्ययः" इति । तथा “विपरीतगुणैर्देशमाखा कालोपपादितैः” इत्यादि । तथा
For Private and Personal Use Only