________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः सूत्रस्थानम् ।
३७ सत्तावान् । न सत्तावान् समवायः स्वरूपेण सद्भावात् सत्तान्तरवत्ताभावात् . न हि समवायेन समवायो द्रव्यगुणकर्मसु वर्तते । तेषु वृत्तौ समवायस्य वस्त्वन्तराभावात् स्वरूपेणैव वृत्तेः । नित्यश्चानित्यश्च समवायः । द्रव्याणां गुणैः सह योगो नित्यः। न हि वर्तते निगुणं द्रव्यम्। सगुणमेव हि द्रव्यमुत्पद्यते । लोके त्रिविधं नित्यम् । लोके त्रिविधं नित्यं व्यवहियते। प्राकृतप्रलयादक्यिन्न नश्यति तत् प्राकृतप्रलयपर्यन्तस्थायित्वाल्लोके नित्यं व्यवहियते—यथा चतुर्विंशतिस्तत्त्वानि । अव्यक्ताख्यात्मादीनां समवायिकारणसमवायः प्राकृतप्रलयपर्यन्तं तिष्ठति,नश्यति च प्राकृतप्रलये जायमाने, नश्यन्त्यव्यक्तात्मादीनि चतुर्विंशतिस्तत्वानि। तस्माल्लोके सत्यानित्यान्यपि चाव्यक्तादीनि पृथिव्यन्तानि चतुर्विशतिस्तन्मयानि देवनरादीनि चराचराणि वस्तुतस्तु अनित्यान्यनृतानि भवन्ति स्वप्नविषयाभिमतानीव प्रमाणप्रमेयतयाभिमान्यानीति। द्विविधं मिथ्यात्वं । लोके सत्यत्वं वस्तुतस्त्वनृतत्वं यथा स्थाणुः स्थाणुरेवेति सत्यत्वम्। लोके मिथ्यात्वं च यथा स्थाणौ पुरुष इति। एवमेवोक्तं गौतमेन न्यायशासने तैत्तिरीयोपनिषन्मूलकम् स्वमविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः । तत् तु अप्रधानभेदान्मिथ्याज्ञानस्य द्वैविध्योपपत्तेश्च इति। अव्यक्तं हि संहतं कालानुप्रविष्टं क्षेत्राधिष्ठितं प्रधानं त्रिगुणलक्षणमिति त्रयात्मकं तेषां त्रयाणां पृथगवस्थाने लयः प्राकृतो नाम प्रकृतौ स्थितत्वात् 'प्रधानपुरुषयोरिति। प्राकृते तस्मिन् प्रलये जाते पृथक् व्यवस्थिताः प्रधानक्षेत्रकालचतुब्बेदपरमविद्याप्रणवात्मकसदाशिवाः सदनुप्रविष्टा वस्तुतः सत्याः परमव्योमरूपपरमात्मशिवगायत्रावशेषनिर्वाणाख्यप्रलयपर्यन्तस्थायित्वान्मध्यमनित्याः । तस्मिन् इह निर्वाणाख्ये प्रलये मांसत्वरूपं यथा वद्धके भोज्यरूपे मांसेऽस्ति तथा शरीरधातुरूपे वर्द्धनीयेऽप्यस्ति, ततश्च नित्य मांसत्वसम्बन्धादमांसादानामपि मांसेन वर्द्धितव्यं, तस्माद् वृद्धिकारणलक्षणत्वेन सामान्यं वृद्धिकारणमित्युक्तम् । अत एव नैशेषिकेऽप्युक्त "त्रयाणामकार्यत्वमकारणत्वन्वेति" अत्र तयाणामिति सामान्यविशेषसमवायानाम्। ये तु समानमेव सामान्यमिति कृत्वा द्रव्यादेवव सामान्यशब्दे. नाभिदधति तेषाञ्च मते "सामान्यञ्च विशेषञ्च" इत्यादिग्रन्थोक्तस्य सामान्यस्य न किञ्चिदनेनोक्त स्यादित्यसम्बन्धार्थत्वं प्रकरणस्य स्यात्। एतच्च वृद्धिकारणत्वं सामान्यलक्षणं न भवति, किं तायुर्वेदोपयोगिना धर्मेण निर्देशः, लक्षणन्तु “सामान्यमेकत्वकरम्" इति करिष्यति ; एवं
व्यादावपि चोद्देशानन्तरं निर्देशं करिष्यति "खादीन्यात्मा" इत्यादिना, ततो लक्षणं “यत्राश्रिताः कम्मंगुणा." इत्यादिना करिष्यति ।
For Private and Personal Use Only