________________
Shri Mahavir Jain Aradhana Kendra
३६
www.kobatirth.org
चरक संहिता | सामान्यमेकत्वकरं विशेषस्तु पृथक्त्वकृत् । तुल्यार्थता हि सामान्यं विशेषस्तु विपर्य्ययः ॥ १८
-
Acharya Shri Kailassagarsuri Gyanmandir
दोर्घञ्जीवितीयः
इति षटषु च पुरुषषु सत्सु हासहेतुर्विशेषः क्षत्रियत्वं ब्राह्मणत्वञ्च । एकः क्षत्रियः पञ्च ब्राह्मणा इति । प्रवृत्तिर्भावोऽनुवृत्तेरेव हेतुत्वात् । “असु भुवि" भूसत्तायामित्यस्ते भवतेर्वा रूपं भावो भवनं सत्ता । सदिति यतः सा सत्ता द्रव्यगुणकर्म्मसु । द्रव्यगुणकर्म्मणां यावत् सत्ता तावदनुत्पत्ते रुत्तरकालं वृत्तिः स्थितिः” सत्ताया असद्भावविनाशः । तर्हि किं सत्ता द्रव्याणां गुणः कर्म वा यावद्धि गुणो द्रव्ये वर्त्तते तावदद्रव्यं तदगुणाश्चानुवत्तन्ते तथा क्रिया । गुणकम्सु भावान्न गुणोन कम्म । सत्ता हि गुणेषु कर्मसु च वर्त्तते तस्मान्न गुणो न वा कम्प सत्ता भवति भावात् । गुणः कम्मे च विभाव्यते गुणेनापि सङ्ख्यापरिमाणपृथक्त्वपरत्वापरत्वादिनेति । तथापि न गुणो न कम्मे च सत्ता, सामान्यविशेषाभावेन च । सामान्यं न सामान्यवद्विशेषवद्वा । विशेषश्च न सामान्यवान् विशेषवान् वा । गुणकम्मणी तु सामान्यविशेषवती । एतेन द्रव्यं व्याख्यातम् । द्रव्यमपि न सत्ता सामान्यविशेषाभावेन च सत्तायाः, सामान्यवद्धि द्रव्यं विशेषवच्च । पारिशेष्यात समवायः । शेषवदनुमानं परिशेषः । त्रिविधमनुमानमुक्तं पूर्ववच्छे पवत् सामान्यतो दृष्टञ्च । तत्र शेषः परिशेषः कारणप्रदर्शनेनानुपपत्तिवचनेन यत् प्रतिषेधादप्रतिषिद्धं यत्परिशिष्यते तत्पारिशेष्यादनुमीयते । तच्च शेषवदनुमानम् । द्रव्यगुणकर्म्मणां सत्तात्वप्रतिषेधात् परिशिष्यते समवायः सा सत्तेत्यनुमीयते । समवायाद्धि सदिति द्रव्यगुणकर्मसु प्रतीयते । यावद्धि समवायिकारणानां समवायो वर्त्तते, तावदद्रव्यं सदिति प्रतीयते गुणः सन्निति कम्मं च सदिति । सैव द्रव्यगुणकर्मणामनुवृत्तहेतुः । समवायाभावाद द्रव्यगुणकर्म्मणां नाशः । समवायिकारणानां समवायाभावः पृथक्त्वसंयोगो यदा स्यात तदा नश्यतीति दृश्यते नास्तीत्युच्यते । समवायोऽस्ति चेति किं
For Private and Personal Use Only
भवन्ति सत्तामनुभवन्ति इति भावा गुणद्रव्यकर्माणीत्यर्थः, न तु भवन्त्युत्पद्यन्त इति भावाः, तथा सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवणुकादि वृद्धं कार्य्यम संगृहीतं स्यात्; सामान्यञ्च "सामान्यमेकत्वकरम्" इत्यादिना वक्ष्यमाणलक्षणं, वृद्धिराधिक्यं तत्कारणं वृद्धिकारणम् । एतश्च सामान्यं सामान्यवतो मांसद्रव्यादेवृद्विकारणस्य लक्षणत्वेन वृद्धिकारणमित्युक्त, यतो न सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति, तथा हि सति सामान्यं