________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । सव्वदा सर्वभावाणां सामान्यं वृद्धिकारणम् ।
ह्रासहेतुर्विशेषश्च प्रवृत्तिरुभयस्य तु॥ वेदानामक्षरत्वात् तथैव च । तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम् ॥ वाक्समूहार्थ विस्तारात् पूजितत्वाच्च देहिभिः। चिकित्सितात् पुण्यतमं न किश्चिदपि शुश्रुम” इति। एतेनायुर्वेदमूलकत्वेनाग्निवेशकृतस्य तथा चरकप्रतिसंस्कृतस्प च तन्त्रस्याप्यायुर्वेदख शाश्वतञ्चोक्तमिति बोध्यम् ॥ १७॥ ____गङ्गाधरः - इत्यायुरायुर्वेदमायुर्वेदस्योत्कर्षञ्चोक्त्वा वक्ष्यमाणस्यायुर्वेदप्रयोजनस्य धातुसाम्यरक्षणस्य विषमधातूनां धातुसाम्यकरणस्प च कारणं सामान्यविशेषादिषट्कं यत् प्रागुद्दिष्ट क्रमेण तत्पटकमुपदेष्टु प्रथमतः सामान्यविशेषयोः कार्यमुपदिशति, सर्वदैत्यादि सर्वदा सव्वैस्मिन्नावस्थिके नित्यगे च काले । सर्वेषां भावानां द्रव्यगुणकर्मणां सामान्यं वृद्धिकारणं हेतुः प्रयोजकमित्येकोऽर्थः। समानो हि भावः समानं वद्धयितुं प्रयुज्यते सामान्येनेति समानानां द्रव्यगुणकर्माणां वृद्धौ प्रयोजक सामान्यम। एवमेव सर्व भावाणां विशेषो हासहेतुः प्रयोजक इति। सबै पां भावानां द्रव्यगुणकर्मणां विशेषो हासे हेतुः। विशिष्टो हि भावो विशिष्टानि द्रव्यगुणकर्माणि हासयितुं प्रयुक्त इति विशिष्टानां द्रव्यगुणकर्मणां हासे प्रयोजको विशेषः। अनयोरुदाहरणमेकमेव दर्शयति । प्रवृत्तिरुभयस्य तु इति । यो भावो यस्य समानस्तयोरुभयोः प्रवृत्तिः सामान्यं वृद्धिकारणं संख्यात एव । यो भावो यस्माद्विशिष्टस्तयोरुभयोः प्रवृत्तिर्विशेषो हासहेतुः सख्यात एवेति । तद्यथा। पञ्चसु ब्राह्मणेषु यद्यपरः कश्चिद् ब्राह्मण आगच्छति तदा तद्ब्राह्मणत्वं सामान्यं षडब्राह्मणा इति संख्यातस्तेषां वृद्धौ हेतुर्भवति। यदि तत्र कश्चित् क्षत्रिय आगच्छति तदा तत्क्षत्रियत्वं विशेषो न सङ्ख्यातो ब्राह्मणानां वृद्धौ हेतुर्भवति, पञ्च व ब्राह्मणा एकः क्षत्रिय यद यस्मान्मनुष्याणामुभयोरपि लोकयोर्यद्वितमायुरारोग्यसाधनं धम्मसाधनञ्च तद्वक्ष्यते तेनातिशयेन पुण्यतमस्तथा वेदविदाञ्च पूजित इति । केचिद् “वक्ष्यते यः" इति पठन्ति, तत्रापि हेतुगर्भमिति ग्याख्येयं ; जीवितप्रदातृत्वादायुर्वेदस्य पुण्यतमत्वं बोद्धव्यं, यतश्चतुव्वंगसाधनीभूतजीवितप्रदमेव सर्वोत्तमं भवति, उच्यते च “न हि जीवितदानाद्रि दानमन्यद्विशिष्यते ॥ १७ ॥
चक्रपाणिः-सम्प्रत्यायुर्वेदाभिधेयतया सूत्रिते सामान्यादौ सामान्यस्य प्रथमसूत्रितत्वात् तथा सामान्यज्ञानमूलत्वाच्चायुर्वेदप्रतिपाद्यस्य हेत्वादेः सामान्यमेवान निर्दिशति, सर्वदेत्यादि।सर्वदा सर्चस्मिन् काले नित्यगे चावस्थिके च, सर्वभावाणामित्यत्र सन्वेशब्दः कृत्स्नवाची,
For Private and Personal Use Only