________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [दीर्घ जीवितीयः तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।
वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितः ॥ १७ वक्तुमावश्यकानीति मनुष्यविधजन्मिनां प्राणिनाभवायुलक्षणमिदमिति यत् तदपि न मनोरम, घटादीनामप्राणिनां वाह्याभ्यन्तरेन्द्रियाभावेनायुष्मत्त्वाभावात् । परन्तु नाशसामान्यं प्रति नायुषः प्रतिबन्धकवं, प्रतिबन्धकत्वन्तु मरणमात्रं प्रतीति; तथा च स्वं स्वं यावत् समवायिकारणसंयोग उत्पत्तिस्तदुत्तरकालं स्वं स्वं यावत् समवायिकारणविभागो नाशः। प्राक्काले तु स एव प्रागभावः। सर्वेषामेव कार्याणां समवायिकारणमस्ति तद्धि विना कार्यासम्भवः, कार्याणां तन्मयत्वात्, तेन घटो नरश्च जायते नश्यति चेति साधु, शरीरेन्द्रियादिसंयोग आयुः जीवनं, तदुत्तरकालं शरीरेन्द्रियादिविभागो मरणमिति पुरुषो जीवति म्रियते च स्थूलशरीरेन्द्रियादिमत्त्वात् । एवं वृक्षोऽपि जीवति म्रियते स्थूलशरीरेन्द्रियादिमत्त्वात् । न तु मृतो जीवति जीवितो म्रियते मृतस्य मूक्ष्मदेहेन्द्रियादिमत्त्वेऽपि स्थूलशरीराभावात् । न वा घटो जीवति म्रियते वा स्थूलशरीरत्वेऽपि वाह्याभ्यन्तरद्विधेन्द्रियादिमत्त्वाभावात् । इह चेन्द्रियं द्विधा, वाह्यमाभ्यन्तरञ्च । तत्र वाह्य स्थूलशरीराश्रितमनित्यं सूक्ष्म नित्यशरीराश्रितं पुनराभ्यन्तरं नित्यं ; तत्तदाभ्यन्तरेन्द्रियाणि श्रोत्रादिष्वधिष्ठानेन तत्तत्काय्यश्रवणादिसम्पादनात् तु श्रोत्रादिस्थ श्रवणेन्द्रियादिकं वाह्य न्द्रियतया तूपदिश्यते. मूक्ष्मदेहस्थमपि स्थूलशरीरादिमत्स्थूलमुच्यते इत्यभिप्रायेण लोकोपदेशे त्विन्द्रियं नोक्तम् ॥१६॥
' गङ्गाधरः-अथ आयुःस्वरूपमुक्त्वा आयुर्वेदस्य सव्ववेदोत्कृष्टत्वमाह- तस्येत्यादि।-वेद इति “विद विचारणे, विद लाभे, विद ज्ञाने" इत्येष्वर्थेषु वेदयति विन्दति वेत्ति वानेनास्मिन् वेति वेद इति सुश्रुतानुसारिण आयुष इति उभयोलोकयोहितोऽयं वेदो वक्ष्यतेऽर्थेदशमहामूलीये। सुश्रुतेऽप्युक्तं ; “सनातनत्वाद सत्वात्मसंयोग इति किमर्थमुक्तम् ? ब्रूमः-शरीरेन्द्रियसत्वात्मसंयोगजन्या चैतन्यानुवृत्तियथोक्तसंयोगान्यभिचारित्वेन ब्यक्तत्वेन चार्थेदशमहामूलीये लक्षणत्वेनोक्ता, शरीरादिसंयोगरूपमेव त्वायु: परमार्थतः, एवम्भूतसंयोगाभावे मरणमायुरुपरमरूपं भवति । मृतशरीरे तु चेतसोऽभावादायूरूपसंयोगाभावः ॥ १६ ॥
चक्रपाणि:-तस्येत्यादि। वेदयतीति वेदः, वेदविदां मत इति वेदविद्भिः पूजितः ; अथ कस्मा. दायुर्वेदलक्षणो वेदः पुण्यतमो वेदविदाञ्च पूजित इत्याह, वक्ष्यत इत्यादि । -यदिति यस्मादेवमुकं भवति, यदन्ये ऋग्वेदादयः प्रायः परलोकहितमेवार्थं वदन्ति तेन पुण्याः, पुण्यतमश्चायम् आयुर्वेदो
For Private and Personal Use Only