________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
३३
सूत्रस्थानम् । प्रशेन तत् प्रयुज्यत्वात् । तेन मृत्युना च तेषामायुष्मत्त्व लक्ष्यते। घटादिस्थावराणां कपालाद्यात्मकसमवायिसमूहसंयोगो नादृष्टप्रयुज्यः कम्जातगुणविशेषो ह्यात्मनोऽदृष्टमिति रक्षादीनां सजीवानामस्ति चादृष्टमस्ति चायुरिति बोध्यम् । यावत् समवायिसंयोगस्तु अजीवाचेतनानां घटादीनां सजीवाचेतनानां वृक्षादीनां चेतनानाश्चास्त्येव । वृक्षवनरखादिरूपेण यथास्वतत्त्वपरिणामे व व यावत् तत्त्वान्येव संमवायीनि कारणानि, अदृष्टमिह समवायिकारणं देहिसमवायित्वेन निमित्तं वा। यावत् समवायिसंयोगस्तु वृत्तिनियामकसम्बन्धो भूतादिद्रव्याणां तत्तदारम्भकाणां संयोगः द्रव्यगुणयोः समवाय इत्युभयरूपः । ताकिकास्तु अवयवावयविलक्षणो द्रवयाणामपि सम्बन्धः स चायुरेवेत्याहुः। इत्थं निरुक्तस्यायुषः साम्यं वृद्धिासश्च यौक्तिकाधिकन्यूनकालविशिष्टत्वेनानुमेया आयुवदिभिरुपदिश्यन्ते । तेन जीवितविशिष्ट कालाआयुरिति यदुच्यते तन्न । आयुर्हासद्धिकरणकम्प्रणा प्रसिद्वस्य कालस्य हासद्धग्रापत्तेः जीवितस्य भिन्नरूपतया वाच्यखापत्तश्च । कालजीवितयोवैशिष्ठ्यमायुरित्यपि चिन्त्यं, जीवितं यावत् समवायिसंयोगः स च समवायः समवायसंयोगोभयरुपो वा तस्य च कालवैशिष्ट्य समवेतसंयोगित्वमिति । अथ यदि येनामाणिप्राणि यावद्वस्तु नियतकिञ्चित्कालमवतिष्ठते स यावत् समवायिसंयोग आयुरिष्यत, तदा नरो नश्यति तरुनश्यतीतिवत् घटो नश्यतीत्यादि साधु, तावत् नरो म्रियते जीवति भवतीतिवत् घटो म्रियते जीवतीत्यादिप्रयोगस्य साधुता भवतु । न स्यात् नाशो हि यावत् समवायिसंयोगध्वंसो, मरणं त्वात्मशरीरसंयोगध्वंस इति तस्मान्नाशसामान्य प्रति नायुषः प्रतिबन्धकत्वं कल्प्यते। कल्प्यते च मरणं प्रत्यायुषः शरीरादिसंयोगस्येति, तेनेदं फलति यावत् समवायिसंयोगाभावे नाशः स्याच्छरीरेन्द्रियादिसंयोगरूपायुरवसाने मरणं स्यात् तच्च विनाशविशेषश्च भवतीत्यतो जीवनमरणे मिथः सविपर्यये नाशजन्मनी च। न तु नाशजीवने न वा जन्ममरणे घटो म्रियते जीवतीत्यप्रयोगात् । अप्राणिनामायुहिताहितमानान्यस्मिन् वेदै निरूपयितुमनावश्यकत्वात् प्राणिनामेवायुहिताहितमानानि नित्यगः, अनुवन्नात्यायुरपरापरशरीरादिसंयोगरूपतया इत्यनुबन्धः, पर्यायैररायुरुच्यत इति एकार्थाभिधायिभिः शब्दैरुच्यते। यद्यपि च नित्यगानुबन्धशब्दाभ्यां न क्वचिदप्यायुरभिधीयते तथापि नित्यगत्वानुबन्धत्वधर्मख्यापनाथमेवैतत् संज्ञाद्वयं बोद्धव्यम्, धारिसंज्ञा त्वर्थेदशमहामूलीये भविष्यति। ननु उत्तरत्र “चैतन्यानुवृत्तिरायुः' इत्यायुलक्षणं करिष्यति, इह तु शरीरेन्द्रिय
For Private and Personal Use Only