________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
चरक संहिता ।
दीर्घ ad
दायात्मकं तेन हीन्द्रियलाभे पुनरुक्तत्वापत्तिः स्यादस्तु वा वाह्येन्द्रियादि-पञ्चमहाभूतविकार समुदायात्मकं शरीरम् । इन्द्रियन्तु आभ्यन्तरं नित्यं श्रोत्रादिकं तेन नेन्द्रियस्य पौनरुक्तं वृक्षादेरपि वाह्य न्द्रियरहितस्यायुष्यच्त्वमाभ्यन्तरेन्द्रियवत्त्वात् । स तु मनः, आत्मा चेतनाधातुस्तेषां संयोगः शरीरेन्द्रियसत्त्वात्मसंयोग इति स्वरूपलक्षणमायुषः स्वरूपमुक्त्वा धर्मान्तरोपदेशेन लक्षणं वक्तु पर्यायानाहधारीत्यादि । सत्वात्मशरीरेन्द्रियाणि परस्परं धारयितुं शीलं यस्य तत् धारि जीवनं जीवितं फलात्मकजीवधार्थः नित्यं प्रतिक्षणं गन्तु' शीलं शिथिलीभावो यस्य स नित्यगः अनुबन्धः अनुपूर्व्वावस्थानत्यागपूर्वकानुरूपेणोत्तरकालं नातीत्यनुवन्धः । अत्र चकारादनुक्तमप्यत्रार्थे दशमहामूलीयेऽयुक्तश्चेतनानुवृत्तिशब्दोऽपि बोध्यः । अथ शरीरं स्थूलसूक्ष्मान्यतरत् तच्छरीरादिसंयोगश्चेदायुस्तदा मरणानन्तरं लिङ्गदे हित्वेऽप्यायुष्मत्त्वमस्तु | उच्यते, तलिङ्गदेहित्वे तत्पारलौकिक सुखदुःखरूप स्वर्गेनरकभोगे तच्छरीरादिसंयोगस्य हेतुत्वेन पारलौकिकायया इष्टमेवेति यैर्व्याख्यायते तन्निरस्तं, शरीरपदेन स्थूलशरीरपरत्वेन व्याख्यातखात् । शरीरान्तरसंयोगत्वेनैतच्छरीरे नायु पूव्व जन्मीया युवत६ हिनः । एतस्यायुषि तस्यायुर्वारणाय तत्तद्रपेण व्याख्यातव्यमिति नन्वेवं चेद्रादीनामिन्द्रियसात्महीनानामायुर्नास्ति नास्ति चेत् तर्हि सर्व्वदा घटादिर्नश्यतु किञ्चित्काल' नावतिष्ठताम् । अस्ति चेन्न्यूनत्वं दोष इत्यत्रोच्यते केनचित् । चिकित् साधिकृतत्वाभावात् तेषामायुर्वचनेऽप्रयोजनमिति । अन्ये तु चिकित्साधिकृतत्वात् प्राधान्याच्च कम्पुरुषाभिप्रायेणेदमायुर्लक्षणमित्याहुः । परे तु शरीरेन्द्रिये - त्यायुपलक्षणं तेन समवायिसंयोग आधुरिति ज्ञापनार्थं शरीरेन्द्रियादिप्रदर्शन मिति भाषन्ते । तत् समवायिसंयोगो हि मृतपुरुषदेहे घटादीनामपि स्यादिति । अन्ये तु स्वारम्भकतत्संयोगोऽदृष्टप्रयुज्यः समवायिसमूहसंयोगो वा यावत्समवायिसंयोगो वा आयुरुच्यते घटादीनां स्वारम्भकपञ्चभूतरूपपञ्चतत्तु संयोगश्चेद आयुवृक्षादीनामपि चेतन पुरुषवत् तत्त्वचतुर्विंशतिरारम्भिकैव तेजोवनीपवनवारिसनाथवीजस्य तदारम्भकस्य तदारम्भकाले जीवात्मनस्तत्र वायुना प्रेरितस्य
इयन्त्रितो योगः संयोगः, इन्द्रियाण्यपि यद्यपि शरीरग्रहणेनैव लभ्यन्ते तथापि प्राधान्यात्तानि पुनः पृथगुक्रानि, अयञ्च संयोगः संयोगिनः शरीरस्य क्षणिक वेन यद्यपि क्षणिवस्तथापि सन्तानभ्यवस्थितोऽयमेकतयोच्यते । तस्य युषः पर्याय नाह धारीन्य दि । धारयतीति शरीरं पूतितां गन्तु न ददातीति धरि, जीवयति प्राणान् धारयतीति जीवितं नित्यं शरीरस्य क्षणिकत्वेन गच्छतीति
For Private and Personal Use Only