________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1१श अध्याय सूत्रस्थानम् ।
४७७ तत्रोपकरणोपायाननुव्यायास्यामः। तद् यथा---कृषि-पाशुपाल्य-बाक्षिय-शाजोपसेवादीनि। यानि चान्यान्यपि सतामविगहितानि कर्माणि वृतिपुष्टिकरामि विद्यात् तान्यारभेत कर्त्त । तथा कुन दीर्घजीवितमनवमतः पुरुषो भवतीति, द्वितीया चनजान व्याख्याता भवति ॥ ४॥ ननु कैरुपायनान्वयेटच्यानीति अत आह-तत्रेत्यादि । धनोपाया. निति नोत्तवा बटुपकरणोपायानिति कृतं तेनैतत् ख्यापितं, धनस्य प्राणोपकरणतयोपार्जनं कर्तव्यं, न तु कृपणानामिवेति बोध्यम् । ननु के चोपकरणोपाया इति? अन आह नल्यथेत्यादि । कृषिभूमिविलेखनपूर्वकशस्य जननं, पाशुपाल्यं गोमहिषादिरक्षणं, येन धनमुपाज्ज्यते । बाणिज्यं वणिवा, राजोपरखेवा मन्त्रणादिकर्मणि नियुक्तः सन् राजानमुपसेवते यत् सा। आदिना लम्यग्रहणनियमपूर्वकोत्तमणेखादि। अत्रादिना गहितादन्यान्यपि कर्माणि नोपाज्जन किमाचर्याणि न वेति, अत आह-- यानीत्यादि। अन्यान्यपि सतां साधकर्मणां धार्मिकाणां सम्बन्धे न विगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात, न केवलं सतामविगहितानि विद्यात् । सतामविगहितानि ह्यनेकानि वृत्तिपुष्ट्योरनुपार्जनानि सन्ति। वृत्ति वनेन वत्तेनं, पुष्टिर्धनसम्पत्तिः । एवम्भूतानि पुनः प्रतिग्रहाध्यापनादीनि भवन्ति। तानि कर्त्तमारभेत । इत्थं धनैषणाफलमाह- तथा कुचन्नित्यादि। तथा कुव्येन् उक्तविधिना धनैषणां कुर्वन् दीर्घजीवितं व्याप्यानवमतः लोकेऽनवज्ञातः अवज्ञया रहितः यावज्जीवं बहुभिमनिग्रहीतः पुरुषो भवतीत्यर्थः। इति इयं द्वितीया धनैपणा व्याख्याता भवति॥४॥ प्राधान्यं दर्शयति, प्राणेभ्यो हीत्यादि। पापशब्देन पापकार्य दुःखमुच्यते ; उपकरणमारोम्यभोगधर्मसाधनीभूतो धनप्रपञ्चः, स यस्य नास्त्यसावनुपकरणः ; धनोपायानिति वक्तव्ये उपकरणोपासानिति यतः करोति, तेन धनस्य भोगाद् धर्मसाधनार्थमेवोत्पादमिच्छान्त, न पुनः कृपणस्येव विनियोगशून्यस्य सुसंवर्द्धितमात्रकरणार्थम् । अन्यान्यपीति प्रतिग्रहाध्यापनादीनि, वृत्तिर्वर्तन, पुधिर्धनसम्पत्तिः ; अनवमतोऽनवज्ञातो बहुमानगृहीत इति यावत् ; दीर्घ जीवितं जीवति धारयतीत्यर्थः अनेकार्थत्वाद धातूनां : यदि वा दीर्घजीवितं यथा स्यात् तथा
जीवतीति क्रियाविशेषणेन व्याख्येयम् ॥१॥
For Private and Personal Use Only