________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः
४६३
सूत्रस्थानम् । महति काये नापराधवान् भवति सम्पादयति चन्टकार्यम्, तथा भिषक स्वगुणसम्पन्न उपकरणवान् वीक्ष्य कारभमाणः साध्यरोगमनपराधः सम्पादयत्येवातुरमारोग्येण । तस्मान्न भेषजमभेषजेनाविशिष्टं भवति ॥ २ ॥
अभ्यासनित्यः सततं लक्ष्यवेधकारी धनुरादाय धृत्वा इ वाणमप्यस्यन् क्षिपन् नातिविपकृष्टे अनतिरे महति काये नातिमूक्ष्मकायवस्तुनि नापराधवान् लक्ष्यवेधासिद्धिभाक् न भवति, सम्पादयति च इष्टकार्य लक्ष्यवेधरूपमिति। तथा भिपक स्वगुणसम्पन्न उपकरणवान भेषजद्रव्यवान् वीक्ष्य साध्यासाध्यवादिरूपेण परीक्ष्य कर्म चिकित्सितमारभमाणः साध्यरोगमनपराधः सिद्धिभाक् सन्नातुरमारोग्येण सम्पादयत्येव । निगयमयति--तस्मात् इत्यादि। तस्मात् सम्पूर्णभेषनं विनोत्थानसमथस्यातुरस्य भेषजेन बलोपाधानात् सम्पूर्णभेपजेनोपक्रान्तस्य मरणनिवारणोपायभेपनसमुदायाभावाच्च न भेषजमभेपर्जनाविशिष्टं तुल्यं भवनीति ।।२।। औषधाभावरूपाञ्ज प्राप्नोति तदा मारयति. यदा तु न प्राप्नोति तदा न मारयति, यदुक्त जनपदोन ध्वंसनीये “कर्म किञ्चित् क्वचित काले विपाकनियतं महत् । किञ्चित् त्वकालनियतं प्रत्ययैः प्रतिबोध्यते ॥' अस्य त्वयं प्रपन्चेन तत्रैव दर्शयिष्यामः। न च वाच्यम्---अष्टमेव सर्वत्र कारणं, तच्च नियतकालविपाकमेव, यदुच्यते ..."नाकाले जायते कश्चिन्नाकाले म्रियते तथा। जगत् कालवशं सव्वं कालः सर्वत्र कारणम् ॥” इति ; यतः, यदिहादृष्टं तदेव दृष्टयागादिब्रह्मवधादिजन्यं किञ्चिद ; यद दृष्टेनानुत्पन्नं, तत्रादृष्टकल्पना प्रामाणिकी ; यत् तु दाहादि दृष्टेनैवाग्निसम्बन्धनोपपद्यते, तत्र का कथाऽदृष्टस्य दृष्टकाय्योन्यथानुपपत्तिपरिकल्पनीयस्य । तेन, य इमे दुबलेन कम्मणा दृष्टवलबदपथ्यसेवाजनितदोषबलादारब्धा व्याधयस्ते बलवता चतुष्पादसम्पन्नेन भेषजेन दोपक्षयकेणोपायेन परं साध्यास्तदभावे तु दुर्बलेनापि कर्मणा दृष्टदोपबलादारब्धा व्याधयो न निवर्तन्त इति ; यदक्त... "देवं पुरुषकारेण दुर्बलं हुउपहन्यते। देवेन चेतरत् कर्म विशिष्टेनोपहन्यते ॥” इति। अनुपायेनाऽभेषजेन ; अयं भेपजसमुदायः, समुदायः सर्वगुणसम्पन्न इत्यर्थः। असाध्ये व्याधौ चिकित्सां कुर्वन् वैद्य एव यथोक्तगुणो न भवतीत्यर्थः । न ह्यलं न समर्थः ; यद्यसाध्यतां जानाति तदा न प्रवर्तत एव, अथ न जानाति, तदा ज्ञानवानेव न भवतीति भावः। चतुष्पादसम्पदावश्यं व्याधिप्रशमो भवतीति दृष्टान्तेनाह--यथा हीत्यादि। इष्वासो धानुष्कः, अस्यन् क्षिपन्, नातिविप्रकृष्टे सान्नहिते, नापराधवान् इति लक्ष्यभ्र शरहितः, इष्टं कार्य लक्ष्यवेधलक्षणम् ॥ १॥२॥
For Private and Personal Use Only