________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
चरक-संहिता। ( महाचतुप्पा३: इदञ्चेदञ्च नः प्रत्यक्षं यदनातुरेण भेषनातुरं चिकिसामः। चाममनामेण कृशश्च दुबलमाप्याययामः । स्थूलं मेदखिनमपतर्पयामः। शीतेनोषणाभिभूतमुपचरामः । शीताभिभूतमुष्णेन । न्यूनान् धातून पूरयामः। व्यतिरिक्तान् हासयामः। व्याधीन मूपिय्ययेणोपचरन्तः सम्यक प्रकृतो स्थापयामः। तेषां नस्तथा कुवतामयं भेषजसमुदायः कान्ततमा भवति ॥३॥
गङ्गाधरः-भेषजस्य रोगप्रशमकले उपपत्त्यन्तरं दशयति इदच्चेत्यादि । नोऽस्माकं प्रत्यक्षमिति। प्रत्यक्षप्रमाणस्याप्रतिहतखादुक्तम्। अनातरेण आतुय्येविपरीतेन भेपजेन चिकित्साम इति यदुक्तं टिणोति–क्षाममित्यादि । क्षामं क्षीण कृशं दुबेलञ्चाक्षामेण पोपणेनाप्याययामः सन्तपेयामः। स्थूलं भेदस्विनमपतपयामः, अभोजनाद्यपतपणम् । उष्णाभिभूतं शीतनोपचरामः, शीताभिभूतमुष्णेनोपचराम इत्यनन सम्बन्धः। न्यनान् धातून पूरयामः । व्यतिरिक्तान् वृद्धान् हासयामः। व्याधीन मूलविषय्य यण कारणविपरीतेन गुणरसवीय्यविपाकप्रभावेण उपचरन्तो वयं प्रकृती सम्यक् स्थापयामः । तेन विपरीतार्थकारिष्वपि नाव्याप्तिः। तेषांक्षामादीनां तथा कुव्वतां नाऽस्माकमयं भेषजसमुदायः कान्ततमा भवति। विना हि भेषजसमुदायं केवलं शुभादृष्टमातुराणां व्याधिभ्य उत्थापनाय कान्तमपि न कान्ततमं भवति । हिमान्यायभिभूतानां पुरुषाणामनपातपगुरुप्रावरणादिकं शीतविपरीतमन्तरेण केवलातिशुभादृष्टेन शीतात्तिवारणाभावात् ।। ३॥
चक्रपाणि:-भेषजस्य रोगप्रशमकतृ त्वे उपपत्त्यन्तरमाह --- इदन्चेत्यादि। अनातुरेणेत्यातुरगुणविपरीतेन ; आतुरमनातुरेण चिकित्साम इति यदुक्त, तस्यैव विवरणं.---'क्षाममक्षामेण' इत्यादि। क्षामो निवः, कृशञ्च दुब्बलमाप्याययाम इति सन्तर्पयाभः, व्यतिरिक्तानित्यतिरिक्तान इत्यर्थः ; मूलविपर्थ्ययेणेति कारणविपर्ययेण, तच्च प्रभावादिति बोद्धव्यं, तेन विपविकारस्य विषेणोपचरणम् । एतत् प्रत्यक्षञ्चान्यदुपगृहीतं भवति, कान्ततमा विकारप्रशमकत्वेनाभीष्टतमः, अन्येऽर्थधर्मोपायाः कान्ताः कान्ततराश्च, अयञ्च भेपजसमुदायः सर्बोच्छेदकरोगहरत्नेन कान्ततमः ॥३॥
For Private and Personal Use Only