________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६२ चरक-संहिता।
'महाचतुष्पादः साध्यानां व्याधीनामनुपायन सिद्धिरस्ति। न चासाध्यानां व्याधीनां भेषजसमुदायोऽस्ति। न ह्यलं ज्ञानवान् भिषङ मुमूर्षु मातुरमुत्थापयितुम् । __परीक्ष्यकारिणो हि कुशला भवन्ति । यथा हि योगज्ञोऽभ्यासनित्यः इक्ष्वासो धनुरादायेषुमप्यस्यन् नातिविप्रकष्ट चेत्यादि। उपायसाध्यानां व्याधीनामनुपायेन उपायं विना न च सिद्धिरस्ति यस्मात तस्मादुपायाः क्रियन्ते ।।
नन्वेवं चेत् तहि उपायन न कस्मात् सव्वे साध्या वाप्यसाध्या वा व्याधयः सिध्यन्ति इत्याहन चासाध्येत्यादि। असाध्यानां व्याधीनां भेषजसमुदायो न चास्ति यस्मात् तस्मादसाथ्यव्याध्यातुराः सम्पूणभेपजोपपन्ना नोत्तिष्ठन्ते । ननु कस्मादसाध्यानां व्याधीनां भेषजसमुदायो नास्ति, दृश्यते हि गुणवान देद्योऽस्ति चास्ति च द्रव्यं गुणवत् गुणवांश्च परिचारकः सर्वगुणश्चातुरः ? इति । तत आह... न हलमिति । ज्ञानवान सव्वगुणवानपि भिषक् मुमूर्ष मसाध्य व्याधितमसाध्यव्याधिभ्य उत्थापयितुमलं समों न भवति यम्मात नस्मान असाध्यव्याधीनां भेषजसमुदायोऽन्यत्रास्त्यपि नास्त्येव ।
ननु तन् कथं ज्ञानवान भवति भिपगिति ? अत आह-परीक्षात्यादि। परीक्ष्य व्याधीन साध्यासाध्यखादिरूपेण साध्यान् व्याधींश्चिकितसयारधुमसाध्यान् हातु शीलं यंपां ने परीक्ष्यकारिणो वैद्याः हि यस्मात् कुशलाः सिद्धिभाजो भवन्ति । तम्मान्मुम्रषु व्याधितानामुत्थापनसामथ्याभावेऽपि भिषक् ज्ञानवान भवति। असाध्यव्याव्यसाधने अज्ञानादग्राह्यखवारणाय दृष्टान्तमाह----यथा हीत्यादि । हि यस्मात् इष्वासो धनुष्मान् योगज्ञः व्याधयश्च ; सम्पूर्णभेपजोपपत्तावपि सत्यामसाध्यव्याधयो नोत्तिष्ठन्ते, साध्यव्याधय उत्तिष्ठन्त इति भावः। यद्यप्यसाध्यव्याधिं प्रति सम्पूर्णभेषजोपपत्तिरेव नास्ति, यदुक्तं,---"न च असाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति ; न ह्यलं ज्ञानवान् भिपङमुमूर्षु मातुरमुत्थापयितुम्' इति। तथापीह किञ्चिदसम्पूर्णत्वेऽपि सम्पूर्णभेपजोपपन्ना इति ये तु साध्यव्याधयस्ते सत्यामेव भेषजोपपत्तौ जीवन्तीति ; असत्यान्सु भेषजसम्पत्ती बलवज्जोवनकर्माभावे म्रियन्त एवेति दर्शयन्नाह---न चोपायेति । उपायेनैव दृष्टार्थेन साध्या उपायसाध्या ; इदमत्राकूतं---यद द्विविधं कर्म यलबदबलवच्च, तत्र बलवन्नियतविपाककालं,-यथेदं कर्मास्मिन्नेव काले मारयति ; अबलवच्च मारकं कर्म मारयत्येव कालानियमेन, यदा दृष्टसामग्रीमनुगुणामपथ्यसेवारूपाम्
For Private and Personal Use Only