________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
चरक-संहिता। { महाचतुष्पादः म्रियते, अप्रतिकुर्वन् सिध्यति अप्रतिकुव्वन् म्रियते, ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति।
मैत्रे य ! मिथ्या चिन्त्यत इत्यानं यः। किं कारणं ? ये ह्यातुराः षोड़शगुणसमुदितनानेन भेषजेनापद्यमाना नियन्त इत्युक्तं तत् अनुपपन्नम्। न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति। ये पुनरातुराः केवलाद भंपजाते समुत्सिध्यति नीरोगो भवति, भेषजेन प्रतिकुन्नातुरो म्रियते च । इति भेषजस्यान्वयेन व्यभिचारस्य निगमनम् । व्यतिरेकेण व्यभिचारस्यानिगमनमाहअप्रतिकुन्नित्यादि। अत्रापि अतश्चेत्यास्यानुत्तिः। अतश्चाप्रतिकुचन आतुरो भेषजैरनुपक्रान्तः स्वयं सिध्यति भेषजैरप्रतिकुब्वेन्नातुरो म्रियते च । अत्रातुरस्य प्रतिक्रियायां कत्तलप्रयोगो न वैद्यस्याप्राशन्येन रोगोपशमकतया, किन्तु स्वस्यारोग्याय प्रतिकार वैद्यादीनां तिकरणे प्राधान्यात् । अथ मैत्रेयमतमुपसंहरति-तत इत्यादि। तस्मात् प्रतिकारेण सिद्धिमरणान्यतरस्मात् अप्रतिकारेण सिद्धिचरणान्यतरस्मात् भेषजमभेपजेनाविशिष्ट विशेपरहितं तुल्यमिति यावत् चिन्त्यते मयेति शेषः । इति मैत्रेय आहति शेषः। __ मैत्रेयप्रतिष्ठापितमिदं दुपयितुमाह-मिथ्या चिन्त्यते। अर्थान्मैत्रेयेण इत्यात्रेय आह । अथात्र प्रश्नः। मैत्रयेण उक्तरूपं यन्मिथ्या चिन्त्यते तत्र किं कारणमिति जिज्ञासा। मैत्रेयस्य निरुक्तचिन्ताया मिथ्यावे हेतुमाह ..... ये ह्यातुरा इत्यादि। हि यस्मात् ये आतुरा पोड़शगुणसमुदितेनानेन भेपजेनोपपद्यमाना म्रियन्ते इत्युक्तं तन्नोपपद्यते। कस्मात् ? इत्यत आह-न हीत्यादि। हि यस्मात् भेषजसाध्यानां व्याधीनां भपजमकारणं न भवति ; ये त म्रियन्ते भपजेनोपएन्ना अपि ते खल्वसाध्यव्याधिमत्त्वान्नोत्तिष्ठन्ते इत्यथः ।
द्वितीयस्यात्तरमाह --ये पुनरातुराः केवलात् सम्पूर्णात् भेपजाते समुत्तिष्ठन्ते नीरोगा भवन्ति, न तेषामातुराणां सम्पूर्णभपजोपपादनार्थं तत्तद व्याधेः प्रतिकुन्नित्यन्त विण्यर्थत्वात् प्रतिकारयन्नित्यर्थः ; यदि वा आतुर एव वैद्यादीनुत्पाद्यात्मान प्रतिकुन्निति मन्तव्यम् ।
एतेन देवकर्मवशादेव जीवति म्रियते वा रोगी भवत्यरोगो वा, न दृष्टभेपजमन किञ्चित्करमिति पूर्वपक्षार्थ सिद्धान्तयति-मिथ्येति ।- केवलात् सम्पूर्णात्, न
For Private and Personal Use Only