________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(खुडाकचतुष्पाद:
४५०
चरक-संहिता। आतुराधास्तथा सिद्धौ पादाः कारणसंज्ञिताः । वैद्यस्थातश्चिकित्सायां प्रधानं कारण भिषक् ॥ मृदण्डचक्रसूत्रायाः कुम्भकाराहते यथा। नावहन्ति गुणं वैद्याहते पादत्रयं तथा ॥६॥ गन्धवपुरवन्नाशं यद्विकाराः सुदारुणाः।
यान्ति यच्चेतरे वृद्धिमाशुपायप्रतीक्षिणः ॥ चारको करणद्वयमिति, एवंरूपेणातुरायाः प्रतिलोमतन्त्रयुक्तता आतुर-परिचारक-द्रव्याणीति त्रयः पादा वैद्यस्य चिकित्सायाः सिद्धो कारणम् । पक्तः पाके पात्रवत् विजेतुर्विजये भूमिवदातुरोऽधिकरणकारणमिति। तथा वैद्यस्य चिकित्सासिद्धौ इन्धनवच्चमूवच परिचारकः करणकारणसंशितः । अनलवन प्रहरणवच्च करणकारणसंशितं द्रव्यमिति बोध्यम्। निगमयति-अत इत्यादि। अतः प्रधानं कत्तु कारणं भिषक् इति पञ्चावयववाक्यम् । ___अन्वयेन पादचतुष्टथे वैद्यस्य प्राधान्यं खादिभिः स्थापयिखा व्यतिरेकेण स्थापयति-मृडत्यादि। यथा कुम्भकाराहते कुलालं विना मृद्दण्डचक्रसूत्राद्याः कुम्भनिर्माणे गुणं कुम्भनिम्मितिसिद्धिकरं नावहन्ति न कत्तु मलं भवन्ति तथा वैद्यादृते वैदंत विना पादास्त्रयः द्रव्योपचारकरोगिणः गुणं चिकित्सासिद्धिं नावहन्ति, तस्मा भिषक प्रधानं पादचतुष्टये ॥९॥
गङ्गाधरः---अथान्वयव्यतिरेकाभ्यां दृष्टान्ताभ्यां भिषनः प्राशन्यं स्थापयिखा एकेनैव दृष्टान्नान्वरेन गुणं व्यतिरेकेण दो दर्शयितु गुणवदित्यस्य व्यावृत्तिमाह-गन्धव्वेत्यादि । सति पादत्रयेऽपि द्रव्योपस्थातृरोगिषु सत्स्वपि गुणवत्सु उपायप्रतीक्षिणः क्रियासाध्या न बसाध्या विश्वेदेनोपक्रान्ताः सुदारुणा अपि विकाराः केचिद यद्यस्मात् आशु नाशं यान्ति गन्धवपुरवत । यथा नीहारातमकेटीजालयाशु नाशं यान्ति तत्र कारणं शो भिषक् । उपाय
सम्प्रति व्यतिरेकर शान्तेन वैद्यप्राधान्यं दर्शयति-मृद्दण्डत्यादिना। न वहन्ति न निष्पादयन्ति ; गुणं साध्यमित्यर्थः ॥९॥
चक्रपाणिः-अन्ययेन व्यतिरेकेग च पृथक् दान्त दर्शयित्वा कौशलेनैकत्रैव शान्ते गन्धर्वपुरत्यन्वये गुणं व्यतिरेके च दोषं दर्शयति, एकत्र पक्षे नाशमशु जन्तीति सम्बन्धः, इतरेऽपरेऽनभिज्ञवैद्योपक्रान्ता गन्धर्बपुरवदाशु वृद्धिं यान्तीति सम्बन्धः। उपायप्रतीक्षिण
For Private and Personal Use Only