________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः
सूत्रस्थानम् ।
४४६ कारणं पोडशगुणं सिद्धौ पादचतुष्टयम् । विज्ञाता शासिता योक्ता प्रधान भिषगत्र तु॥ पक्तौ हि कारणं पक्तुर्यथा पात्रंन्धनानलाः ।
विजेतुर्विजये भूमिश्चभूः प्रहरणानि च ॥ लोपयेत् स्मृतिम् ॥” इत्युक्तया ज्वरवेगकालविस्मरणमुक्तमिति कश्चिदाह, तन्न । पूर्वमाचरिताभ्यवहारादीनां स्मरणस्य गुणवेनोक्तखात् उत्पन्ने तु रोगे चिकित्साथं वेगादिविस्मरणस्य गुणलाभावात् विहारावभेषजखात् तथा उन्मादे त्रासनस्यापि तथाखाच्च। ज्ञापकसमिति पूर्व यदाचरितमभ्यवहृतं तत् तस्य तथातुय्ये यदा यथावं तस्य च ज्ञापकवं गुण इति ॥८॥
गङ्गाधरः-एवं गुणान् पादचतुष्टयस्य प्रोच्य चतुष्पादे प्राधान्यं वैद्यस्य दर्शयितुमाह-कारणमित्यादि। पोड़ शगुणं मिलिवा पादचतुष्टयं, सिद्वौ चिकित्सित क्रियासिद्धो कारणं भवति। अत्र तु चतुष्पादेषु मध्ये भिपक् प्रधानमिति प्रतिज्ञा। कस्मादित्याह -विज्ञातेत्यादि। अत्र पक्ती हीति हिशब्दो हेतो वोध्यः। तेन हि यस्मात् भिरक विज्ञाता ओषधस्य शासिता पथादिनियमे वर्तनाय रोगिणः। परिचारकस्य चेदमेवं कुरु नेदं नैवं कुरु इत्यादिरूपेण शासनकर्ता नियोगकर्ता। योक्ता रोगिण औषधादिप्रयोक्ता। एवं भिषकपरतत्राणां द्रव्यादीनां त्रयाणां पादानां प्रत्तिरिति, भिषक पुनः स्वतत्र इति बोध्यम् ।।
इदमेव दृष्टान्तद्वयेन दर्शयति -पक्तावित्यादि। पत्तो पाके । यथा पक्तः पाचकस्य पाके पात्रेन्धनानलाः कारणं पात्रमधिकरणं तथातुरः इन्धनानलो यथा करणे तथा द्रव्यपरिचारको। यथा च विजेतु यक्रियायां भूमिरधिकरणं तथातुरः, चमूः सेना प्रहरणानि चास्त्रशस्त्राणि यथा करणद्वयं तथा द्रव्यपरि
चक्रपाणिः--एवं वैद्यादीनाञ्चतुणामपि कारणत्वे सिद्ध वैद्यस्य प्राधान्यं दर्शयति-विज्ञातेत्यादि। विज्ञाता औषधस्य ; शासिता परिचारकस्य, एवं कुर्वे वं मा कुर्विति ; योक्ताऽऽतुरस्य। एतेन वैद्यपराधीना भेपजादीनां प्रवृत्तिः, वैद्यस्तु स्वतन्त्रः, ततश्च वैद्यः प्रधानमिति वाक्यार्थः। - एतदेवाभ्यहि तत्वात दृष्टान्तद्वयेन दर्शयति-पक्तावित्यादि। पक्तौ पाके कर्त्तव्ये ; पात्रस्थानीय आतुरः, परिचारक इन्धनरूपः, अनलो भेषजरूपः ; कारणमित्युपकरणम्, भूमियुद्धानुगुणदेशः। अत्रापि पूर्ववदेवातुरादिस्थानीयत्व भूम्यादीनाम्।।
For Private and Personal Use Only