________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खुडाकवतुन्पाद:
४४८
चरक-संहिता। उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि ।। शौचञ्चेति चतुष्कोऽयं गुणः परिचरे जने ॥ ७ ॥ स्मृतिनिर्देशकारित्वमभीरुत्वमथापि च ।
ज्ञापकत्वञ्च रोगाणामातुरस्थ गुणाः स्मृताः ॥ ८॥ सम्वं वर्तते तत् । सम्पच्चेति यथत्तुं सम्भूतलेन सम्पूर्णगुणरसवीर्यप्रभावादिमत्ता सम्पत्तिः॥६॥
गङ्गाधरः--उपस्थातुगुणानाह----उपचारशतेत्यादि। रसकरसौदनयूषपेयादिकरणशीलता संवाहनस्थापनशायनादिपु विशता। दाक्ष्यं दक्षता तत्तदातुरोपचारक्रियासु कुशलखम्। अनुरागश्च भत्तेरीति आतुरे स्वामिनि अनरागः। कदा क केन कथं वारोग्यमस्य भवतीत्यादिरूपेण मनसानुरागः श्रद्धा। शौचमिति पूर्ववत् ॥ ७॥
गङ्गाधरः-रोगिणो गुणानाह -- स्मृतिरित्यादि। स्मृतिः पूर्वमाचरितमभ्यवहृतं यावत्तावतां स्मरणं तदाख्यानेन वैद्यस्तावत् कारणं विज्ञाय क्रियामारब्धं व्याधि निरूपयितुञ्च शक्नोति। निर्देशकारिखं वंदेरन शासितस्य कम्मेणः क खम् । अभीरुवं व्याधितो वैद्यप्रयोक्तव्यकम्मेतश्चाभीतिशीलखम् । व्याधितो भीरुखे व्याधीनां वृद्धिः, उक्तं हि-विपादो रोगवद्धनानाम्' इति कर्मभीरुखे चिकित्सितकर्मासिद्धिः । अथापि चेति शब्देनेह कचिद्भीरुत्वमपि गुणस्तथा चास्मृतिरपि गुणः स्यात् । उन्मादचिकित्सिते... “सर्पणोद्ध तदंष्ट्रण" इत्यादिना त्रासनमुक्तं, तदा यस्य भयं न स्यात तहिं तत् विफलं स्यात। एवं “ज्वरवेगञ्च कालञ्च चिन्तयन् ज्वय्येते त यः। तस्येष्टैश्च विचित्रश्च प्रयोगस्वभावादपि काचित् कल्पना हिता भवति, यथा--ज्वरे कषाय इत्यादि ; तेनानेकल्पनायोग्यत्वात् यत् यत्र युज्यते तत् तत्र क्रियते। सम्पदिति क्रिमिसलिलाद्यनुपहतत्वेन रसादिसम्पत् । उपचारज्ञता यूषरसकादिकरणसंवाहनस्वापनादिज्ञता ॥ ६॥७॥
चक्रपाणिः--निर्देशकारित्व वैद्योपदिशार्थकत्र्तृत्वम्, अभीरुत्व गुणः, भीरुत्वस्य रोगकर्तृत्वात् ; यदुक्त -"विषादो रोगवर्द्धनानाम्" इति। “अथापि च" इतिशब्देन कचिद्भीरुत्व. मप्यस्मृतिरपि गुणो भवतीति दर्शयति ; यथोन्मादे “सर्पणो तदंष्ट्रण" इत्यादिना त्रासनमुक्त चिकित्सायां, तत्र यद्यप्यभीरुः स्याद्रोगी तदा चिकित्सा न फलति ; अस्मृतिस्तु ज्वरवेगागमनकालास्मरणेऽभिप्रेता ; यदुक्त --"ज्वरवेगञ्च कालञ्च चिन्तयन् ज्वर्यते तु यः। तस्येप्टेच विचित्र प्रयोगैर्नाशयेत् स्मृतिम्” ॥ ८॥
For Private and Personal Use Only