SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९म अध्यामः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ४४३ सुखदुःखविनाशे ब्रह्मरूपप्राप्तौ सुखाश्रयत्वाभावात् ब्रह्मणो यद्रपत्वं तद्रप परमव्योमस्वरूपं प्राप्नोतीति । तैत्तिरीये तु यदानन्दो ब्रह्म ेत्युक्तं तन्नानन्दथुरानन्दो न वानन्दवानानन्दः परन्वानन्दहेतुरेवानन्दः । तत्रैव तैत्तिरीयोपनिषदि - " असा इदमग्र आसीत् ततो वै सदजायत । तदात्मानं स्वयमकुरुत तस्मात् तत् सुकृतमुच्यते । यदद्वैतत् सुकृतं रसो वै सः । रसं sari लानन्द भवति । को ह्यवान्यात् कः प्रायादानन्दो न स्याद्यदेष आकाशः । एष ह्य वानन्दयतीति । ” " तद्धेतुव्यपदेशात्" इति तत्र शारीरकसूत्रात्। गौतमन्यायसूत्रस्य भाष्ये वात्स्यायनेन चोक्तम्- "नित्यं सुखमात्मनो महत्त्ववन्मोक्षेऽभिव्यज्यते तेनाभिव्यक्तेनात्यन्तं विमुक्तः सुखी भवतीति केचिन्मन्यन्ते तेषां प्रमाणाभावादनुपपत्तिः न प्रत्यक्षं नानुमानं नागमो वा विद्यते ।" इत्यादि । सांख्ये च - " नानन्दाभिव्यक्तिमुक्तिः” इति कपिलः । 5 अत्र केचित् नतु प्रतिदिन भोजनेन प्रातरादिकालेन च श्लेष्मप्रकोपे नित्यं धातुवैषम्यं वर्त्तत एव कथं साम्यं स्यादित्यत आह- सुखसंज्ञकमिति । सुखयतीति सुख सुखजनकमिति । एवं दुःखहेतुदु:ख लौकिक सुखगुणहेतुज्वरादिव्याधिनिवृत्तिः प्रातरादौ श्लेष्मादिप्रकोपे च सुखसंशग्रहणात् परमार्थतोऽसुखमिति शापितम्। एवं दुःखमिव दुःखमेव विकारो न तु दुःख सत् दुःखमित्यर्थः । तथा च सुखानुपातिधातुसाम्यं प्रकृतिः, दुःखानुपातिधातुवैषम्यं विकार उच्यते । सुश्रुतेऽप्युक्तं – “तद्दुःखसंयोगो व्याधिस्तत्र च त्रिविधं दुःखमनुपतति । तञ्चाधिदैविकमाधिभौतिकमाध्यात्मिकम्” इति विस्तरेण पूर्व्वव्याखयानेनोपदर्शितम् । प्रातरादिकालस्वभाव जधातुवैषम्यं दिवारात्रिभोजनमात्रादिजश्च धातुवैषम्यमवंकारिकम् । तत्राल्पमुद्र जकदुःखानुपातात् उत्कटव्याधिजनकत्वाभावात् प्रातिदैनिकत्वाच्चासुखमपि सुखतया व्यवहियते । यो ह्यल्पः स नास्तीति कृत्वा अल्पेऽपि धातुसाम्यव्यवहारात् । अत्र धातुवैषम्यशब्देन कारणे काय्र्योपचारात् धातुवैषम्यजज्वरादिरपि विकार उच्यते । वक्ष्यते हिकाय्यै धातुसाम्यमिहोच्यते । धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम् ॥” इत्यनेन ग्रन्थेनारोग्यं 'धातुसाम्यम् इत्युक्त'; न च रोगे प्रविशति रोगहेतुत्वेनैव कथितत्वात् । अथ धातुवैषम्यं भवति, विकारो न भवतीत्येषा दशा नास्त्येव ; यतः अवश्यं प्रमाणाधिको दोषः स्वलिङ्गाधिको भवति, क्षीणो वा क्षीणस्वलक्षण इति इह तर्हि धातुवैषम्यमेव विकारोऽस्तु एवमयं ग्रन्थो सुख्यो इत्थश्च ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy