________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४४ चरक-संहिता।
खुट्टाकचतुष्पादः "स्वधातुवैषम्यनिमित्तजा 'ये विकारसङ्घा बहवः शरीरे। न ते पृथक् पित्तककानिलेभ्य आगन्तवस्ते तु ततो विशिष्टाः॥” इति। न दि तत्र धातुवैषम्यमात्रमस्ति इत्याहुः । अपरे खत्र विप्रतिपद्यन्ते । स्वधातुवैषम्यजश्चेद्विकारस्तदा खल्वजनितज्वरादिविकारं धातुवैषम्यं किं रोगो किमारोग्यं ? न तावदारोग्यम् ; “धातुसाम्यक्रिया चोक्ता तत्रस्यास्य प्रयोजनम्" इति धातुसाम्यस्यैवारोग्यवख्यापनास; नापि रोगो रोगस्य निमित्तखेनोक्तखात् तस्य धातुवैषम्यस्येति । अत्र समाधत्ते कश्चित् । धातुवैषम्यं तावद्वर्त्तते न च विकारः कश्चिद्भवतीत्येतादृशरूपा दशा न भवत्येव स्वमानाधिको हि दोषोऽवश्यं खलिङ्गाधियं दर्शयति, क्षीणोऽपि क्षीणस्खलिङ्गानीति । धातुवैषम्यं विकारः। धातुवैषम्यजा ज्वरादयो हि विकारजन्यखात् विशिष्टविकारास्तत्रापि धातुवैषम्यस्यानपायात् । अन्ये तु धातुवैषम्यजो विकारो न तु धातुवैषम्यमिति व्याख्याय अजनिताव्यपदेश्यविकारं धातुवैषम्यं रात्रिन्दिवांशभोजनांशादिकृतधातुवैषम्यं चाल्पखेनाव्यपदेश्यतया धातुसाम्य एवान्तर्भावयन्ति। तिलकालकमशकादीनां धातुवैषम्यजखेनेह रोगलमुक्तम् । दुःखखञ्च मनोदुःखकर खादिति कश्चित् । एके तु धातुवैषम्य विकारो धातुसाम्यं प्रकृतिः। तयोः फलं सुख दुःखश्च । यथा गमनं पादाद्यङ्गपरिस्पन्दनं तस्य पालमुत्तरदेशसंयोगस्तस्य त्तरदेशसंयोगजनकस्पन्दनादिव्यापारस्य गमन लमिव सुखजनकधातु साम्यस्य प्रकृतिवं दुःखजनकधातुवैषम्यस्य विकारत्वम् । यथा चोत्तरदेशसंयोगमन्तरेण गमनं न प्रतिपद्यते तथा च सुखदुःखव्यतिरेकेण प्रकृतिविकारौ न प्रतिपदाते इति। संयोगो गमनं तज्जनकस्पन्दनादिश्च गमनमितिवत् सुखमारोग्यं सुखजनकधातुसाम्यचारोग्यं प्रकृतिरित्यनन्तरम् । दुःख विकारस्तजनकधातुवैषम्यश्च विकार इति। ज्वरादयश्च धातुवैषम्यजा विकारा विषमवातादिदोषदृषितरसादिसमुदायजखेन विशिष्टापूर्वलक्षणवेऽपि वातादिवैषम्यविशेषात्मका उच्यन्ते न ततो भिन्नाः । यथा पाञ्चभौतिकखेन विशिष्टापूर्वलक्षणभवति ; धातुवैषम्यजविकारप्रतिपादकस्तु ग्रन्थ आविष्कृततमज्वरादिप्रतिपादकत्वेन व्यवस्थाप्यता, तेन धातुवैषम्यञ्च धातुवैषम्यजाश्च ज्वरादयो विकारा भवन्ति, धातुवैषम्यजादिष्वपि हि ज्वरादिषु धातुवैषम्यरूपताऽस्त्येव, किञ्च स्वमानक्षीणा दोषाः किञ्चिद्विकारं न जनयन्ति, भीणलक्षणं वैषम्यमेव परं यान्ति, वचनं हि "क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते" इति, नात्र धातुवैषम्यमानं विकार इति ब्रुवतामयं पन्थाः, ये तु धातुवैषम्यजो विकार इति
For Private and Personal Use Only