________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४२
चरक संहिता |
1 खुड्डाकचतुष्पादः
इति । ” एवं तेनैव तद्दुःखसंयोगा व्याधय इत्युच्यन्ते । “ते चतुर्व्विधाः । आगन्तवः शारीरा मानसाः स्वाभाविकाश्चेति । तेषामागन्तवोऽभिघातनिमित्ताः । शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः । मानसास्तु क्रोधशोकभयहर्ष विषादेर्ष्याभ्यसूयादैन्यमात्सर्य्यकामलोभप्रभृतय इच्छाद्वेषभेदैर्भवन्ति । स्वाभाविकाः क्षुत्पिपासाजरामृत्युनिद्राप्रभृतयः । तत्र ते मनःशरीराधिष्ठानाः” इति । एवमेव सुश्रतोक्तदिशा दुःखवत् सुखमप्युन्नेयम् । तद्यथा - यद्धातुवैषम्यानुपाति यद्दुःखमाध्यात्मिकं तद्धातुसाम्यानुपाति तत् सुखमाध्यात्मिकं भवति । एवं यद्धातुवैषम्यानुपाति यद्दुःखमाधिभौतिकं तद्धातुसाम्यानुपाति तत् सुखमाधिभौतिकम् । तथा यद्धातुवैषम्यानपाति यददुःखमाधिदैविकं तद्धातुसाम्यानुपाति तत् सुखमाधिदैविकमिति ।
कैवल्यमपि दैववलप्रत्रुत्तं त्रिविधदुःखात्यन्तनिवृत्तिलक्षणं सुखरहितमपि क्षत्रात्मनि यद्धातुवैषम्यनिवृत्तिरूपं परमव्योनरूपपरमात्मस्वरूपत्वेन धातुसाम्यानपातिसुखवत सुख न तु सुखमिति । सुखसंशकमारोग्यं प्रकृतिरुच्यते । इति संज्ञकेत्युक्तम् । स्वस्थानां क्षुधादिव्याधिस्तु तेषां सुखदुःखयोरुपाधिभेदभिन्नयोरयौगपदे ऽपि प्राधान्यात् तत् मुखदुःस्वरूपेणैवारोग्यरोगयोयौगपद्यं बोध्यम् । इत्थञ्च धातुवैषम्यसाम्ययोदुःखसुखयोश्च नित्यव्यतिहार्यत्वेन धातुषैषम्यदुःखयोर्धातुसाम्य सुखयोश्चायुगपद्भावः ख्यापितः । विना हि धातुवैषम्यं न दुःखमुत्पद्यते । न च सुखं विना धातुसाम्यमिति । जन्यGanarasu आपाततोऽदृश्यमाने यदैव धातुवैषम्यं जायते तदैव दुःखमुत्पद्यते, यदैव धातुसाम्यं स्यात् तदैव सुखं स्यादित्यनुभूयते । युक्तिसिद्धात् तु अयौगपद्याज्जन्यजनकभावः स्वीक्रियते । नृणां निःशेषेण दुःखाभावे ज्वरादिनिवृत्तौ सुखमारोग्यं तदपि सुखसंज्ञकम् । स्वर्गऽपि दुःखासम्भिन्ने किमपि दुःख मानसं देवानामस्तीति तदपि सुखसंज्ञकमिति ।
I
1
ननु सुखदुःखयोर्मनः शरीराश्रितखेनात्यन्तिकदुःखनिवृत्तिरूपमोक्षे यत् सुखमुत्पद्यते तत् कमाश्रयति ? न हि तदा शरीरं मनो वा वर्त्तते । यद्यात्मानमाश्रयति तदात्माश्रितमधिकं रोगारोग्यं वक्तव्यमिति चेत् ? न, युगपत्धातुवैषम्यनिमित्तजा ये विकारसंघा बहवः शरीरे" इत्यादि, तथा “विकृतिमापन्ना नानाविधैविकारैः शरीरमुपतपति" इत्यादि, तथा सुश्रुतेऽप्युक्तम् "धातुशोणितसन्निपातवैषम्यनिमित्ताः” इति । अत्र पक्षे धातुवैषम्यनिमित्ता इति ; यत्पक्षे धातुवैषम्यजश्चेद विकारस्तदा तु जनितविकारं agri प्रविशतु; किं विकारे, उत आरोग्ये ? न तावदारोग्ये यतः " इत्युक्त ं कारणं
For Private and Personal Use Only