________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४१
९म अध्यायः
सूत्रस्थानम् । करणमन्यत् । तस्मात् पुरुषोऽधिष्ठानम् । “तद दुःखसंयोगो व्याधिः” इति । तत्र पुरुषे दुःखसंयोगा व्याधय इत्यर्थः। तथा तेनैवोक्तम् –“प्रागभिहितं तददुःखसंयोगो व्याधिरिति। तच्च दुःखं त्रिविधमाध्यात्मिकमाधिभौतिकमाधिदैविकञ्चेति ।” तस्य दुःखस्य संयोगः सम्बन्ध इति । प्राणिषु सम्बद्धं त्रिविधं दुःखं व्याधिरथवा दुःखस्य संयोगो यत्र स व्याधिर्धातुवैषमामित्यर्थः, तत्राध्यात्मिक दुःखं तद्यत् सत्त्वात्मसन्निकर्षण बुद्धमा सत्त्वेनोपलभ्यमात्मानमधिकृत्य सत्त्वे वा शरीरे वानुनिपततीति । सुश्रुतेन चोक्तं.-.-."तच त्रिविधं दुःखं सप्तविधे व्याधावुपनिपतति। ते पुनः सप्तविधा व्याधयो यथा--आदिबलप्रवृत्ता जन्मबलप्रवृत्ता दोषबलप्रयत्ताः सातबलप्रवृत्ताः कालबलपत्ता दैवबलप्रवृत्ताः स्वभावबलप्रवृत्ताः इति। तत्रादिबलपत्ता ये शुक्रशोणितदोषान्वयाः कुष्ठाशेःप्रभृतयः। तेऽपि द्विविधा मातृजाः पितृजाश्च। जन्मवलमत्ता ये मातुरपचारात् पङ्गजात्यन्धबधिरमूकमिन्मिनवाबनप्रभृतयो जायन्ते। तेऽपि द्विविधा रसकृता द्वै हेदापचारकृताश्च। दोपवलप्रवृत्ता ये आतङ्कसमुत्पन्ना मिथ्याहाराचारभवाश्च । तेऽपि द्विविधा आमाशयसमुत्था पक्काशयसमुत्थाश्च। पुनश्च द्विविधाः शारीरा मानसाश्च । त एते आध्यात्मिकाः । सङ्घातबलपत्ता य आगन्तवो दुबैलस्य बलवद्विग्रहात्; तऽपि द्विविधा. शस्त्रकृता व्यालादिकृताश्च । एत आधिभोतिकाः। कालबलप्रवृत्ता ये शीतोष्णवातवर्षाप्रभृतिनिमित्तास्तेऽपि द्विविधा व्यापन्नत्तकृता अव्यापन्नत कृताश्च । दैवबलप्रवृत्ता ये देवद्रोहादभिशप्तका अथव्वेकृता उपसर्गकृताश्च ; तेऽपि द्विविधा विदुरदशनिकृताः पिशाचादिकृताश्च । पुनश्च द्विविधा संसगजा आकस्मिकाश्च । स्वभावबलप्रवृत्ताः क्षत्पिपासाजरामृत्युनिद्राप्रभृतयस्तेऽपि द्विविधाः । कालकृता अकालकृताश्च । तत्र परिरक्षणकृताः कालकृताः अपरिरक्षणकृता अकालकृताः। एत आधिदैविकास्तत्र सव्वव्याध्यवरोध स्यात्, अत एव सुश्रुतेऽयुक्त "तच्च दुःखं सप्तविधेऽपि व्याधावुपनिपतति" इति। "संज्ञक". ग्रहणात् , परमार्थतोऽसुखमपि लोके सुखमिति यद व्यवह्रियते, तदिह गृह्यते ; इति दर्शयतियेन, दिवारात्रिभोजनावस्थादिनितधातुवैषम्यं स्वल्पमुवेजक विज्ञाराकतृत्वेन सुखमिति न्यवाहियते, तेन, यो शल्पः, स नास्त्येवेति कृत्वाऽल्पेऽपि धातुवैषम्ये धातुसाल्यो व्यवहारसिद्धो भवति ; तथा "संज्ञक"ग्रहणेन लौकिकसुखं न परमार्थतः सुखमिति दर्शयति । ततो वक्ष्यति "सर्व कारणवद दुःखम्" इत्यादि। "एव च” ग्रहणेन दुःखं परमार्थतोऽपि दुःखमेवेति दर्शयति, न सुखमिव व्यवहारमात्रेण। अन्न च धातुवैषम्येण कारणेनोपचारात् तत्कार्यज्वरादयोऽभिधीयन्ते ; यतः, धातुवैषम्यजो हि विकारो न धातुवैषम्यमानं, यद वक्ष्यति-"स्व
For Private and Personal Use Only