________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४० चरक-संहिता।
(खुड्डाबचतुष्पादः दिति। शरीरग्रहणमेव विकारो निर्वाणमारोग्यम् । तत्रापि यथास्वलक्षणशरीरमनोयुक्तखेऽपि वातादिधातुसाम्यसम्भवादारोग्यं, शारीरमानसधातुबेषम्यन्तु विकार इत्यभिप्रायण,क्तं--"विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते" इति। साम्यमिति प्रकरणात् धातुसाम्यमित्यर्थः ।
नन प्रतिदिनभोजनादिषु प्रातरादिषु च कफादिप्रकोपाद्वातादिपशमाच्च नित्यमेव धातुवैषम्यं वर्तत एवेति, कथं साम्यं स्यादिति चेत् ? न, तस्य प्रकृतिरूपविकारखेनष्टखार । क्षत्पिपासानिद्राजन्मजरामरणादीनामिव लोभादीनां मानसव्याधीनामिव च स्वाभाविकव्याश्विादिति। ननु धातूनां वैगम्यं गुणतोऽल्पाधिक्यं साम्यमन्यनातिरिक्तलम् । तच्च परिमाणाख्यो गुणविशेषः स्या। तत् कथं वक्ष्यमाणं “स्वधातुवंपम्यनिमित्तजा ये विकारसङ्घा बहवः शरीरे। न ते पृथक् पित्तककानिलेभ्य आगन्तवस्ते तु ततो विशिष्टाः ॥” इति वचनं सङ्गच्छते इति चेत् ? न। समवायिकारणद्रव्य. गुणकम्मे विकारः काय्य तदात्मकमेवेति विषमवातपित्तककात्मका एव तेषां काय्यभूता ज्वरादयो न ते पित्तककानिलेभ्यः पृथक् । तथा तेजऔष्णारूपदहनादिसमुदायोऽग्निस्तत्कायालोकदाहादयो न वह्नितः पृथगिति। एतेन च वातादयोऽपि स्वस्वसमवायिकारणद्रव्यगुणकम्मे विकारास्तदात्मककाय्यभूतद्रव्यगुणकम्र्मसमुदायरूपास्तेषाञ्च वैषम्यं द्रव्यतो गुणतः कम्मेतो वा हीना वा वृद्धा वा वातादय एव लभ्यन्त. एतदभिप्रायण कचिद्भावप्रधानस्वेन द्रव्यप्रधानलेनाचार्यनिदिश्यते इति । नन्वस्तु थानोवपम्यं विकारः साम्यन्तु प्रकृतिस्तेन प्राणिनां स्वस्थानां क्षुत्पिपासाजन्ममरणेच्छा. द्वेषादिस्वभावव्याधिमत्त्वे धातुवैपम्यसाम्याभावात् किं स्वास्थामातुय्यं वा स्यादित्यत आह-सुखसंज्ञकमित्यादि । मुखसंज्ञकमात्मलिङ्गखेन यद्वक्ष्यते तत् । तथा दुःखमात्मलिङ्गखेन यद्वक्ष्यते तत्। एवकारणाभेदो शापितः। विविधदुःखजनकतायोगा। दुःखमेव धातुवैषम्यं विकारः, सुखसंज्ञकमेव विविधसुखजनकखयोगात् सुखसंशमेव। धातुसाम्यं प्रकृतिर्न बन्यरूपो विकारोऽस्ति प्रकृतिर्वास्ति । एतदभिप्रायेणैव सुश्रुतेनाप्युक्तम्-“तत्र पुरुषः प्रधानं तस्योपणाद वैद्यकसिद्धान्ते हीयं प्रकृतिविकारव्यवस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः षोड़शकः, प्रकृतिगुणानां साम्यावस्था भविष्यतीति दर्शयतीति । ननु रात्रिदिनभोजनानां तासु तास्ववस्थासु श्लेष्मप्रकोपादिना नित्यं धातुवैषम्यमस्ति, तत कुतो धातुसाम्यमित्याह-सुखसंज्ञकमित्यादि। सुखहेतुः सुखम्, एवं दुःखहेतुःखं ; यतः, न दुःखं व्याधिः, तथा हि सति न ज्वरादीनां व्याधिस्त्वं
For Private and Personal Use Only