________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एम अध्यायः ]
सूत्रस्थानम् ।
४३७
चारकः । रोगीति त्रिकालार्थे घञ्, तेन त्रैकालिकरोगवान ; भाविरोगी चातीतरोगी च स्वस्थ उत्पन्न रोगवान आतुर इति । तेन स्वास्थ्यरक्षणेऽप्येते भिषगादयः पादाश्चत्वारो भवन्ति । पादश्चतुर्थोऽश एषां पादसंज्ञत्वेनोपदेशेन पादभङ्गे यथाङ्गभङ्गे सति न कस्यापि पूर्णता स्यात् तथा वैद्याद्यन्यतमभङ्गे भेषजपूर्णता न स्यादिति शापितम् । विकारव्युपशान्तये विकाराणामनुत्पन्नानां वि विगमाय अनुत्पत्तये, उत्पन्नानामुपशान्तये किंवा समविषमधातुः पुरुषो रोगी नत्र समवातादिधातुकस्यापि स्वभावमवृत्तक्षुत्पिपासाजरामरणादिलोभमोहादिरोगवत्त्वेन तत्तद्रोगलक्षणधातु वै म्यदुःखोभयस्य व्युपशान्तये विशेषेण प्रशमनाय भिगादिचतुष्टयं कारणम् : न त्वन्या किश्चिदस्ति कारणम् । ननु भिगादिचतुष्पादमात्रस्यैव किं कारणत्वमित्याहगुणवदिति । गुणाभावे तु न कारणवावधारणवेषाम् । भिगादिपादचतुष्टये व्याधिव्युपशान्तिकारणं गुणवत्त्वात् । यत्र पाढ़े गुणोऽस्ति तत्र व्याधिव्युपशान्तिकारणत्वमस्तीत्यकान्तिको भावो बोध्यः । ननु किं समस्तानां भिगादीनां कारणखमुत व्यस्तानाम् ? उच्यते, व्यस्तानां समस्तानाञ्च स्वस्वगुणवतां भादीनामेव विकारव्युपशान्तये कारणत्वमेव, नन्येषां नाप्यकारणमिति । महाचतुष्पादे तु यक्ष्यति - "ये ह्यातुराः केवलापजाते समुत्तिष्ठन्त" इत्यादि । तत्रापि किञ्चिदाहारविहाराभ्यां गुणवद्भ्यामेव विकारापशमो बोध्यः ॥ २ ॥
मैद्यादानामुपकार्य्यः, उपकार्य्यश्च प्रधानं भवति, तथापीह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारो न तथा आतुरस्येत्यप्राधान्यविवक्षया पश्चादुक्तः । पादश्चतुर्थो भागः, श्लोकादिपादवद् वैद्यादिषु पादसंज्ञाकरणेनान्यतरवैकल्येनापि चिकित्सा न भवतीति दर्शति । गुणवदिति वक्ष्यमाण- "श्रुते पर्यवदातत्वादिगुणवत् । इह च वैद्यादयो व्याप्रियमाणा एव विकारप्रशमने कारणं भवन्ति यतः, कारणत्वं कार्ये व्यापारवतामेव भवति तथा हिदेवदत्तः पाचक इत्युक्ते तुपचुपप्रक्षेपादिक्रिययैव पाकं करोतीति गम्यते एतेन यदुच्यते“चतुण भिपगादीनाम्" इत्यादिना इलाकेन वैद्यादीनां प्रवृत्तिश्चिकित्सा व्याधिप्रशम हेतुरभि - धातव्या, इह तु वैद्यादय एवेति पूर्वापरविरोधस्तन्न भवति, इह वैद्यादिप्रवृत्ते वैद्यादिग्रहणेनैव ग्रहणात् | "चतुर्णाम् इत्यादी के वैद्यादीनां धर्मिणां धम्मरूपायाश्च प्रवृत्तेर्भेदं पुरस्कृत्य चिकित्साया. क्रियारूपायाः कथनम् । एते वैद्याइयो विकारशमने कारणमेवेति नियमः, न पुनरेत एव विकारप्रशमनमिति नियमः । यतः वैद्यादीन् प्रत्याख्यायापि रोगशान्तिर्भवति वक्ष्यति हि महाचतुष्पादे – “ये ह्यातुरा. केवलादभेषजादृते समुत्तिष्ठन्ते" इत्यादिना ॥ २ ॥
;
For Private and Personal Use Only