________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[खुड्डाकचतुष्पादः
४३८
चरक-संहिता। विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते ।
सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ॥३॥ गङ्गाधरः-ननु को विकारः का वा प्रकृतिः किं विना क्रियां गुणवत्पादचतुष्टयञ्च कारणमुक्त, तत्र भिषगादीनां के वा गुणा इत्याशङ्कायामाह-विकार इत्यादि । विक्रियते स्वरूपान्यथासमुत्पद्यते येन इति विकृतिविकारः। स च द्विविधः स्वरूपानुच्छेदे गुणकर्माधानं स्वरूपोच्छेदै गुणरूपाद्याधानश्च। यथा सुवर्ण कुण्डलं भवति, टुग्धं दधि, काष्ठं भस्म भवतीत्यादि । तदाह धातुवैषम्यमिति । धातुरिति चराचराणां जगतां धातुर्विधानधारणपोपणहेतुरव्यक्तमलक्षणं समत्रिगुणलक्षणं क्षेत्रज्ञाधिष्ठितम् परममहच्च चैतन्यहेतुः ब्रह्म यथोच्यते तथा प्राणिनामादिधातुरात्मा तद रूपा च वास्तवप्रकृतिस्तस्य नित्यखादवैषम्यात् । तद्यथा। शक्तिरेव स्वप्रभावगुणनिगृढा प्राक्सर्गादकवाद्वितीयासीत् महानिर्वाणे। तत् परं ब्रह्म मूलप्रकृतिः। सगेकाले सा स्वप्रभावविशेषण परिणामकारिणाशेषान प्रभावान परिणमन्य प्रथमं लोहितमिव तेजोऽमृजत् । तत् तेजोऽपोऽसृजत् शुक्ला इव । ताः कृष्णमिवान्नमसृजन्तेति तिम्रो देवतास्तेजोऽबन्नाखमा लोकिकतेजोऽपृथिवीनामाकरभूता अनप्रविशन्ती सा शक्तिः प्रथमं लोहितशुक्लकृष्णवदाभासा गायत्रीनामदेवता परममूक्ष्मध्वनिलक्षणा वाग्देवतारूपेण विवर्तिता बभूव। सा सगेकाले परमब्रह्म। सा पुनः स्वयं शान्तिर्विद्या प्रतिष्ठा निवृत्तिरिति चतस्रः शक्तयो भूत्वा परमव्योमरूपः परमात्मा शिवो बभूव। तच्चतुव्यूह एव सव्वशक्तिमानादिपुरुष आदिभूतवादादित्यस्तस्य ज्ञानशक्तिर्यदृच्छाशक्तिः क्रियाशक्तिश्चेति तिस्रः प्रधानशक्तयः। तस्य ज्योतिर्गायत्री स पुनर्गायत्रीस्थानि तेजोऽबन्नानि ज्ञानशक्तयाध्यवसाय यदृच्छाशक्तया तथैव नियम्य क्रियाशक्तया परिणमय्य प्रथम प्रणवं ततोऽकारादिवर्णात्मिका मातृकाः सृष्ट्वा तद्र पां विद्यां ससर्ज । तदाश्रयं सदाशिवं ब्रह्मपुरुषं ससज्जे। ततोऽपरां विद्यां सृष्ट्वा तदाश्रयानृग्वेदादींश्चतुरो वेदान् ब्रह्मपुरुषान् ससज्ज । ततस्तान् पञ्च कियदंशेनैकीकृत्य सदिति-नामानं महाविष्णु कालं ससर्ज। तत् सत् कियदंशेन चिबभूव । तचितः प्रसादांशः क्षेत्रज्ञः पुरुष आत्मा विष्णुर्बभूवेति । स आनन्दयतीत्यानन्द
चक्रपाणिः-विकारव्युपशान्तय इत्युक्त, तेन विकारस्वरूपज्ञानार्थमाह-विकारो धातुवैषम्यमित्यादि। धातवो वातादयो रसादयश्च तथा रजःप्रभृतयश्च, तेषां वैषम्यं व्यवहियमाण
For Private and Personal Use Only