________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमोऽध्यायः। अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः,
इति ह स्माह भगवानात्र यः ॥१॥ भिषग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् । गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये ॥२॥ गङ्गाधरः-ननु भेषजचतुष्के स्वस्थातुरोभयविषयास्तावन्त उपदिष्टाः । खस्थचतुष्के स्वस्थविषयास्तावन्त उक्ताः। एषां प्रयोग सिद्धौ के भावा हेतवो भवन्तीत्यतः स्वस्थचतुष्कानन्तरं निर्देशचतुष्क आरभ्यते। विस्तारवचनं हि निर्देशः । निद्दिश्यते विस्तरेणोच्यते प्रयोगसिद्धग्रादिहेतुरस्मिन्नध्याये इति निर्देशः। प्रयोगसिद्धिहेतुविस्तरवचनाधिकरणं तैश्चतुर्भिरध्यायः कृत एकः परिच्छेद इंति निर्देशचतुष्क इत्यर्थः। तत्रापि प्रधानहतूनां निर्देशं कत्तुं खुड्डाकचतुष्पादमध्यायमारभते-अथात इत्यादि । प्राग्वग्राखायम् । खुड्डाकशब्दोऽल्पार्थः । चतुष्पादशब्दोऽत्रायुवेदशास्त्रव्याख्यानाधिकारात चिकित्सार्थ पादचतुष्टयं बोध्यम् । खुड्डाकं वक्ष्यमाणनिर्देशापेक्षया स्वल्पनिर्देशेन निद्दिष्टं चतुष्पादं यत्राध्याये तं तथाध्यायम् ॥१॥
गङ्गाधरः--तत्र चतुरः पादानुद्देष्टुं प्राधान्यात् भिपगादिक्रमेण उद्दिशतिभिषगित्यादि। त्रिभ्यो भिषजः प्राधान्यं स्वयं वक्ष्यति । वैद्यस्य व्याधिप्रशमकत्वेन प्राधान्यम् । करणीभूतानां द्रव्यादीनां त्रयाणां मध्ये द्रव्यस्य प्राधान्याद द्रव्यमनु परिचारकस्याप्यातुरात् प्राधान्यं बोध्यम् । उपस्थाता परि
चक्रपाणिः-स्वस्थचतुष्कानन्तरं स्वस्थातुरयोरुभयोरपि हितत्वेन निर्देशचतुष्कोऽभिधीयते ; मस्थातुरहितं वैद्यभेषजादि निर्दिशतीति निर्देशचतुष्कः, तत्रापि स्वस्थातुरहिते तु प्रधानभूतचिकित्साङ्गवैद्यादिपादचतुथ्याभिधायकत्वेन खुड्डाकचतुष्पादोऽभिधीयते। खुड्डाकशब्दोऽल्पवचनः, यथा-खुडिका गर्भावक्रान्तिरल्पेत्यर्थः ; वैद्यौषधपरिचारकरोगिणश्चिकित्सायाश्चत्वारः पादाः, चतुप्पादं खुट्टाकमभिधेयतयाधिकृत्य कृतोऽध्यायः खुड्डाकचतुष्पादः। अनोत्पन्नस्य तु प्रत्ययस्य "भध्यायानुवाकयोलुक च" इति लुक , खुड्डाकत्वञ्चास्य वक्ष्यमाणमहाचतुष्पादमपेक्ष्य ॥ १॥
चक्रपाणिः-अत्र भिषगादावुक्तः प्रधानत्वात् ; वक्ष्यति हि "प्रधानं भिषगत्र तु" इति । तदनु भेषजं, चिकित्सायां प्रधानकारणभूतत्वात् । तदनु परिचारकः, भेषजप्रयोगस्य कल्ककाथादिसाध्यस्य तदधीनत्वात्। यद्यप्यातुराधिकरणमारोग्यं पादैः सम्पाद्यते, स एव च
For Private and Personal Use Only