________________
Shri Mahavir Jain Aradhana Kendra
४३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता |
[ इन्द्रियोपक्रमणीयः
नृलोकमापूरयते यशसा साधुसम्मतः । धर्मार्थावेति भूतानां बन्धुतामुपगच्छति ॥ परान् सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते । तस्माद वृत्तमनुष्ठेयमिदं सर्व्वेण सर्व्वदा ॥ ११ ॥
मायु सति पादशः ॥” इति मनुवचनात् कलियुगाभिमतमिदं वचनम् । परे तु शतशब्दो बहुत्खपर इति वदन्ति । तत् तु न मनोरमं " शतायुर्वै पुरुष : " इति श्रुतेः । ईशोपनिषदि च शतवर्षमायुरुक्तम् । कठवल्याञ्च -- “शतायुषः पुत्रपौत्रान् वृणीष्व इत्युक्तम् । तस्मान्मनुवचने - " अरोगाः सर्व्वसिद्धार्थाचतुर्व्वर्षशतायुषः" इति युगानुरूपेण सम्पूर्णसर्व्वधर्माणां धपादक्षयेण चतुःशतस्य पादशः क्षयस्तच्च युगनियतं पूर्णमायुः कथ्यते । यदि हि पुरुषैस्तत्र बहुधम्मतपोजप्यरसायनतत्परः स्यात् तदाधिकपुण्यकर्मकत्वात् अधिकायुश्च स्यात् । ततो “दश वर्षसहस्राणि दश वर्षशतानि च रामो राज्यमकारयत्” इति चाधिकायुः सङ्गच्छते । वस्तुतः सत्य त्रेताद्वापरकलियुगेषु स्वभावत एव चतुष्पादत्रिपाद द्विपादैकपादधर्मत्वं संपद्यते लोकानामिति I एवं युगहासानुरूपेण विभिन्नधम्मंप्रतिनियमस्वभावात् कृतादीनां “शतायुर्वै पुरुषः " इति उत्सगंतो वेदोक्तमायुचतुर्षु युगपृक्तं स्वस्थवृत्तानुष्ठानेन सम्पद्यते । तत्र कृतयुगे लोकानां तपस्तत्परत्वेन कस्यचिद्धर्म्मस्य येन केनाप्याचर्य्यमाणस्यैकस्य चतुष्पात्वेन सिद्धेश्च चतुर्गुणमायुः स्याददिकधर्माचरणेन पुनरधिकायुश्वाचरितधर्म्मीनुरूपेण स्यात् तद्गणनमनियतम् । एवं त्रेतायां ज्ञानपरखाल्लोकानां धम्मस्य त्रिपात्त्वेन सिद्धेश्व त्रिगुणमायुश्च स्यादधिकधम्र्माचरणेन पुनधिकायुस्तथा स्यात् । एवञ्च द्वापरे यज्ञपरत्वाल्लोकानां धर्मस्य द्विपात्त्वेन निट तेच सदवृत्तानुष्ठानजायुर्द्वि गुणं शतद्वयं वर्ष स्यादधिकधम्र्म्माचरणेनाधिकमपि तथैव स्यात् । एवं कलियुगेऽपि दानपरत्वाल्लोकानां धर्मस्यैकपादखेनाभिनिष्ट तेश्च स्वस्थवृत्तानुष्ठानकृत शतवर्षायुर्न इसति । परन्तु सममेवानुवर्त्तते । धर्माधिकाल्पाचरणेन पुनरधिकाल्पायुः स्यादित्यभिप्रायेण मनुनोक्तं प्रथमाध्याये - “ चतुष्पाद् सकलो धम्मः सत्यञ्चैव कृते युगे । नाधम्र्मेणागमः कश्चिन्मनुष्यान् प्रतिवत्तेते ॥
व्याधेः पुरुषापराधाविषयत्वादुक्तं समाः शतमित्यादि यदुक्तम् -- "परिहार्य्याणि यत्नेन सदा परिहरन् नरः । भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः" इत्यादि ॥ १०१११ ॥
For Private and Personal Use Only